पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अहमर्थानात्मत्वोपपत्तिः अथाहमर्थानात्मत्वोपपत्तिः ततश्चाहंकारादिसृष्टिः। नन्वहमर्थ आत्मैव, तस्य कथमवि. द्यातः सृष्टिः, न च सुषुप्तौ स्वयं प्रकाशमानस्यात्मनः संभवेऽ. प्यनेवंविधस्याहमर्थस्याभावः, यदि च सुषुप्तावहमर्थः प्रकाशेत, तर्हि स्मर्येत ह्यस्तन इवाहंकारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति- वाच्यम्; हेतोरसिद्धेस्तर्के इष्टापत्तेः । न ह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति । आत्मान्यत्वे- नाप्रकाशत्वसाधने तेन च तदन्यत्वसाधनेऽन्योन्याश्रयः । न चाहमर्थस्यापरामर्श:, सुखमहमस्वाप्सं न किंचिदवेदिषमिति तस्यैव परामर्शादिति - चेन्न; अहंकारस्तावदिच्छादिविशिष्ट एवं गृह्यत इत्यावयोः समम् । सुषुप्तौ च नेच्छादय इति कथं तदाऽहमर्थानुभवः ? न चेच्छादिगुणविशिष्ट एवाऽहमर्थो गृह्यत इत्यत्र न नः सम्प्रतिपत्तिरिति वाच्यम्; गुणिग्रहणस्य गुणग्रहण- व्याप्तत्वात्, अन्यथा रूपादिहीनोऽपि घटः प्रथेत । न न ह्यविद्यायास्तद्वस्त्रादेवि, येन न्यूनत्वं तद्विरोधि स्यात्, किंतु नास्ति न भातीति व्यवहारजनकत्वमित्युत्तरमविद्यायां विभुत्वस्योक्तव्यवहार- हेतुत्वस्य चोक्तया दत्तमिति भावः ॥ तर्कैरित्यादि -- अविद्याविषयस्थितिः । इत्यद्वैतसिद्धिव्याख्यायामविद्या या विषयनिरूपणम् ॥ 47 अथाहमर्थानात्मत्वोपपत्तिः अभाव इति । तथाचाहंकारोऽनात्मा, आत्मप्रकाशकाले प्रकाशमानत्वाभावादित्यनुमानं मानम्, अहंकारत्वं चाहमिति धीविषयता- श्रयत्वम् शुद्धात्मा च नोक्तधीविषयः; स्वप्रकाशतयैव तद्भानादिति न बाध इति भावः । हेतौ उक्ताप्रकाशमानत्वे | व्याप्तत्वादिति । "