पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धो - संयोगादिज्ञानादर्शनेन प्रकृतेऽपि विषयावच्छिन्नाज्ञानज्ञानार्थ तदवच्छेदकविषयाज्ञाननिवृत्तेरपि वक्तव्यत्वेनाज्ञानाविरोधिज्ञान- वत् अज्ञानाविरोधिन्यज्ञाननिवृत्तिरपि स्वीकार्या स्यादिति – वाच्यम्; संयोगादिसत्त्वस्यावच्छेदकघटा दिसच्चसापेक्षत्वेऽपि यथा अभावे न स्वाधिकरणीय प्रतियोगिरूपावच्छेदक सच्चापेक्षा, विरोधात्; तथा अज्ञानज्ञानस्यापि न स्वविषयाज्ञाननिवृत्यपेक्षा, विरोधात् । न चैवं – तद्विषयकज्ञानापेक्षापि मास्तु; विरोधस्य समानत्वात्, अविरोधकल्पनाबीजस्य ज्ञान इवाज्ञाननिवृत्तावपि समानत्वात् । तथाच विषयेऽज्ञात एवाज्ञानं ज्ञायते, विषय- विशेषावच्छिन्नबुद्धिस्तु तमसीव विशेषज्ञानानन्तरं 'एतावत्काल ममुमर्थं नाज्ञासिषमि 'त्येवंरूपा जायत इति वाच्यम्; - 36 [प्रथमः - -- विषयावच्छिन्नाज्ञानज्ञानार्थ – विषयावच्छिन्नत्वेनाज्ञानप्रका- शार्थम् । वक्तव्यत्वेनेति । अज्ञानस्याज्ञातत्वाभावेन प्रकाशसंभवेऽपि तदवच्छेदकस्याज्ञातत्वेनोक्तप्रकाशसंभवेन तदज्ञाननिवृत्तिर्वाच्येति भावः । अवच्छेदकघटादिसवेति । स्वाधिकरणसंयुक्तघटा दिसत्त्वे- त्यर्थः । ननु – तर्हि विशेषावच्छिन्नत्वस्याज्ञाने भानासंभवात्तत्र तद- सिद्धिस्तत्राह – विषयविशेषावच्छिन्नेति । तमसीवेति । तमसि नष्टे घटादितम एतावत्कालं स्थितमिति धीरिवेत्यर्थः । 'घटं न जानामी' ति प्रत्यक्षे मन्मते घटादिज्ञानं कारणतया नापेक्ष्यत एव, विशिष्टबुद्धयादौ विशेषणज्ञानादेर्हेतुत्व स्वीकारात्; परंतु जातेऽपि प्रमाज्ञाने दोषात्तत्र प्रमात्वाग्रहे तद्विषये त्वदुक्तार्थं न जानामीति प्रत्यक्षम्, त्वन्मते तु तस्य ज्ञानाभावविषयकत्वेन त्वदुक्तार्थज्ञानत्वेन प्रतियोगिज्ञानापेक्षत्वमावश्यकम्, अन्यथा नेत्याकारकप्रत्यक्षापत्तेरित्युक्त- ज्ञानाभावे उक्त प्रत्यक्षासंभवः । अथात्र विरोधान्नोक्तज्ञानसंभवः