पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानवादेऽज्ञानविषयनिरूपणम् अवतमसे विषयप्रकाशकालोकसहभावदर्शनेन तमस्यपि नालोक- मात्रं विरोधि । न च – 'त्वदुक्तार्थो न प्रकाशत' इत्यनुभवा- दस्तु तत्र भासमानेऽज्ञानम्, सुखादिस्फुरणे भासमाने न प्रका- - - शत इत्यननुभवात्कथं तत्राज्ञानमिति – वाच्यम्; सुखादिस्फु- रणं न प्रकाशत इत्यनुभवाभावेऽप्यनवच्छिन्नाकारेण न प्रकाशत इत्यनुभवात्, आवारकाज्ञानस्य तत्राप्यावश्यकत्वात् । यदपि -- 'त्वदुक्तमर्थं न जानामी ' त्यत्र भासमाने नाज्ञानम्, किंतु गुहास्थं तमश्छन्नमितिवत् त्वदुक्तं न जानामीत्यनावृतसामान्यावच्छेदेनैव विशेषाज्ञानमनुभूयते, न हि परचित्तस्थमज्ञानं प्रातिस्विकरूपेणान्- द्यते, एवं च तद्विशेष संशयं प्रति तत्सामान्यनिश्चय इव तद्विशेषा- वच्छिन्नाज्ञानज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः; तथा दर्शनात्, न हि विशेषेज्ञाते तदज्ञानधीदृष्टा; अवच्छेदकज्ञानस्य ह्यव- च्छिन्नज्ञानहेतुतापि दर्शनादेव कल्प्या, न चातिप्रसङ्गः; सामान्य- विशेषभावस्यैव नियामकत्वादिति, तन्न ; अज्ञानं हि विशेषा- वच्छिन्नतया भासते, सामान्यावच्छिन्नतया वा । आद्ये विशेषे भासमानत्वमागतमेव । न हि विशेषमभासयन्विशेषाज्ञानमित्य- वभासयति । तथाच सामान्यनिश्चयजनितोऽपि संशयो विशेष- मवगाहते यथा, तथा सामान्यज्ञानजनितोऽप्यज्ञानप्रत्ययो विशेषं विषयीकरिष्यतीति कुतो भासमाने नाज्ञानमिति | न द्वितीयः; सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्याज्ञानस्य विशेषसंब- 33 किंतु प्रमाणवृत्त्यवच्छिन्नचिदेव, तथा च शुद्धे प्रकाशमानेऽ- प्यज्ञानं संभवत्येव । पूर्णानन्दाकारेणावृतत्वं न तु चिन्मात्ररूपेणेति तु तव लालनमात्रं पूर्वं कृतमिति भावः । अनवच्छिन्नाकारेण - सुखाधनवछिन्नशुद्धरूपेण । प्रातिस्विकरूपेण विशेषरूपेण । - A. VOL. III. 3