पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेद: ।' आयुर्वेद स्वाध्याये वारणानां समाप्यते || चतुर्थ चोत्तरं स्थानं परिचाराभिसंज्ञितम् ॥ ४९ ॥ यस्त्वित्रं निखिलं वैद्यः शा वेत्ति ससंग्रहम् ॥ यथावत्सपरीवारं प्रापणे न.समुहति ।। १५० ii तस्य राज्ञो गजा नित्यं हस्ते देगा जिगीषुणा ॥ सच योग्यः क्रियां कर्तुं वारणानां भिषम्वरः ।। ५१ ।। ३६ गजशान्त्यध्यायः ] 3 शुभविधिमनुसृत्य यश्चिकित्सां निपुणमतिर्नियतं करोति वैद्यः || स भवति सततं नृपेण पूज्यः कृतमति (?) विबुधः समीक्ष्य नागान् ॥ ५२ ॥ इति राजकुलप्रदिर्श चिकित्सा- मुषिऋषभ: स चकार पालकाप्यः || तनुरुहचरणाय पृच्छते मां सुरपति तोयधनेश्वरोपमाय || १५३ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धोपदेशे उत्तराभिधाने परिवार चतुर्थस्थाने पत्रिंशो गजशान्त्यध्यायः ॥ ३६॥ • परिसमाप्तेषं पालकाप्पविरचिता हस्त्यायुर्वेद संहिता |