पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषिरचितो- [.४ उत्तरस्थाने- अथ विनयादवनतशिरसमभिसमीक्ष्योवाच पालकाप्यो महामुनिः शृणु राजन्गुग्गुलद्रव्यम नेकगुणसंपन्नममृतोपमं रसायनभूसमित्येषां चिकित्सार्थ- मुत्पादितं भगवता पशुपतिना | तस्योपयोगमुपदेक्ष्यामः | स्तम्भादौ वातिकेषु विकारेषु तथ बालपाकलप्रसुप्तमृदु ग्रह कुकुट महापाकलोत्कर्णवातानाह विषमे- हशिरोरोगहृदयशूलगात्रस्तम्भस्कन्दमूर्छापाण्डुरोगहस्त ग्रहवासगति गुल्माभि- षत्र (ण्ण) मृज्य ग्धानाह मेहोदरशोषिणां कमिकोष्ठिक्षीरवसा घव्यापदादीनां वात- कफादीनी विकाराणामन्येषां च प्रशस्तम् । तत्र प्रशस्त देशजातम- नुपहत वीर्यम चिरस्थित म शुष्क मनिर्दग्धमनन्य द्रव्य संयुक्तमृत्तिकाङ्गारवर्जितमभि- संवीक्ष्पाञ्जनरुचकभृङ्गराजप्रतीकाशं महिषाक्षं चोपकल्प्य पलद्वपात्प्रभृति विंशतिपलिकमर कृत्वा ततस्तं महति कटाहे दृढे कुम्भेष्वा (वा) सूपते गोमू- ऋत्रिफलामसभा मेरेयाणामन्यतमेन द्रव्येण यदि तहिवाकरकिरणसंतप्तं संजा- तफेनबुबुदं भवति, तदा बलवद्भिः पुंभिः कन्यकाभिर्वा हर्षादि पेषयित्वाऽञ्जन- मिव लक्ष्णं ततः सुमनसमभिसमीक्ष्य वारणं प्राक्सूर्योदयाशुभ: सुपरिट हीतमारोग्यार्थं तु पूर्वोकैरेव द्रव्यैपथायोगमवलोक्य पाययेच्छारीरमानसदु:- स्वकोपशोकभपदर्पहर्षैविमुक्तं युक्त्या विरिक्तं बुभुक्षिसं सृस्थित सर्वाङ्गं गजम् । अथवा द्विपञ्चमूल त्रिफलाकाथपिष्टं पुनः प्रक्काथ्य शीतीभूतं जीर्णाहाराय दद्यात् । क्षीरं प्रतिपानाय दद्यात् । स्वापये देकपक्षतः । यवसकवलकुवलजा (या)नां प्रतिषेधः । अथ प्रथमार्या मध्याह्नवेलायां यचतुर्गुणं संयुक्तेन्दुनीलफल- हरितेन यवसेन कण्ठशोधनार्थं प्रतिच्छाच गोजाविर्माहषीणां पयः गृतमर्धमा- गावशिष्टमवतार्य शर्कराचूर्णसंसृष्टं पापयेत् । सेनास्य जीर्णोषधस्य कोष्ठ- दाहशान्तिर्भवति । ततो जीर्णोषधं वारणमभिज्ञाय पुनः मच्छाच कवलः स्वच्छन्दसुखमचारं चैनं नदीनदसरः पर्यन्तेषूदकपूर्णेष्ववगाहयेत् | विधानार्थं पुराणषष्टिकानामोदनं मुद्द्रयूषेण घृतस्निग्धेन सायमेककालं भोजयेत् । शय्या- भागोऽस्य खरोष्ट्राणामेकतमेन पुरीषेणाऽऽतपशुष्केण स्वकरीषेण वा शय्या विधिविधानमसंबाधं कुर्यात् । तत्र श्लोकाः- एष एवं विधिः कार्य आ समाप्तेर्यथाविधि ॥ अन्यथा क्रियते मोहात्ततो व्यापत्तिमर्हसि ॥ १ ॥ दीनो म्लानमुखस्तस्य वेपथुः श्वयथुः कृमः ॥ कदाचिदुष्णं भजते कदाचिच्छीतमेव च ॥ ५ ॥