पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २६६ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने एतद्व्रणानां विनेयं समसंरां) चूर्णशोधनम् । सैन्धवक्षौमेशत्राणि लेखनं त्रिविधं स्मृतम् ॥ १९ ॥ तत्र वक्ष्यामि य येन व्रणो लेखनमर्हति । उसनं कठिनौष्ठं च व्रणं शत्रेण लेखयेत् ॥ १२० ॥ पावं नीलावभासं च सैन्धवेनावलेखयेत् ॥ व्रणं क्षौमेण मृदुना सरुजं लेखयेन्मृदु ॥ २१ ॥ इत्येतदभिनिर्दिष्टं त्रिविधं व्रणलेखनम् ॥ सर्षपा लशुनं चैव वार्ताकी सौरसो रसः ॥ २२ ॥ नागरं युहधूमश्च फणिज्जकरसस्तथा ॥ एतद्रोमूत्रसंयुक्तं सुव्यक्तलवणीकृतम् ॥ २३ ॥ कण्डूविलयनं श्रेष्ठं दन्तिनामरुजां भवेत् ॥ मरिचान्यजशृङ्गी च सर्षपाः सफणिज्जकाः ॥ २४ ॥ सैन्धवं लशुनं चैव कृमिनः स्यादुपक्रमः । -:():-- कंपायैर्विधिना लेपैश्चूर्णयोगैश्च कारयेत् ॥ २२५ ॥ व्रणानां मृदुमांसान निपुणां दारणक्रियाम् । कषापवृक्षचूर्णेन भस्मना गोमयस्य च ॥ २६ ॥ भस्मना तु नवानां वा शोणित स्थापनं भवेत् ॥ तत्रासिद्धे भवेत्कार्यमस्रक्स्थापनमभिना ॥ २७ ॥ तेपिकाफालजाम्बोष्ठंस्तप्ततैलेन वा पुनः । तालपत्री विडङ्गानि मञ्जिष्ठा मधुकस्तथा ॥ २८ ॥ रजनी मधुपर्णी च तथाऽपामार्गतण्डुलाः । उरसादनं भवेदेतद्व्रणानां घृतसंयुतम् ॥ २९ ॥ इमामन्यां प्रवक्ष्यामि पुनरुत्सादनक्रियाम् ॥ काकादनी शुकनासा सुवहा तालपत्रिका ॥ ३३० ॥ १ ख. °भवत्रा° । २ क. लेषये° । ३ क. लेपनम् । ४ ख. कखायै°। ५ क. गोपयितस्य । ६ क. तालिका° ।