पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CZA पालकाप्यमुनिचिरचितो- तस्माद्गजहितार्थं व रक्षणे चानुजीबिनाम् ॥ गजागारे प्रदीपार्थ, स्पात्तैलकुडवो ऋप ॥ ७ दन्ताम्पङ्गे तु सामर्थ्यमत ऊर्ध्वं प्रवक्ष्यते ॥ दृढौं स्थिरौ दन्तवेष्ट्ये करीरी चैव दन्तिनाम् ॥ ८ ॥ विषाणैः प्रहरतां व न हीयन्ते च दन्तिनाम् || न राजयश्च जायन्ते स्निग्धा दन्ताश्चं भूमिप ॥ ९ ॥ एतत्सर्वं महीपाल दन्ताभ्यङ्गे विधीयते ॥ .8 उत्तरस्थाने... नेत्राभ्यङ्गे तु सामर्थ्यमत ऊर्ध्वं शृणुष्व मे ॥ ३१० ॥ अभीक्ष्णं साधु पश्यन्ति घृताभ्यङ्गेषु पोजिताः || अक्षरोगा न जायन्ते स्थिरा दृष्टिस्तु जायते ॥ ११ ॥ नेत्रजानि तु रोमाणि स्निग्धान्यस्य दृढानि तु ॥ भवन्ति न न भिद्येत दृष्टिस्तस्य कदाचन १२ ॥ शोभते चैव नेत्रं च निर्वाणं परमेव च || एतत्सर्वं महीपाल नेत्राम्यङ्गे विधीयते ॥ १३ ॥ पादाभ्यङ्गे तु नागानां वक्ष्यते गुणविस्तरम् || नखा न परिभिद्यन्ते स्थिराः पादा भवन्ति वा ॥ १४ ॥ न चावनि निपीदेत न च क्षीणतलो भवेत् || न जायन्ते कचाः पादे न चक्षुरुपहन्यते ॥ ३१५ ॥ सर्वश्रमविनाशाय पादाभ्यङ्गो विधीयते ।। यथा हि पादपः सिक्तः सर्वतः परिमाणतः ॥ १६ ॥ मूलतः स्कन्धतश्चापि सत्पुष्पफलवानपि || एवं स्नेहपरीकैवरणास्तु विधीयते ॥ १७ ॥ प्रीणाति रोमकूपेभ्यः प्रविष्टो मांसमैदसी || रोमान्तराणि नागस्य त्रिभिर्मात्राशतैः स्थितः ॥ १८ ॥ शुद्धाः प्रविशति स्नेहस्त्वक्चतुर्भिश्च गच्छति ॥ रक्कं ब्रजति वीर्येण मात्राणां पञ्चमिशतेः ।। १९ ।। बभिमांस प्रपद्येत शतैर्मेदश्च सप्तभिः ।। शतैरष्टामिरस्थीनि मज्जानं दशमिर्व्रजेत् ॥ ३२० ॥ मांस मेदोऽस्थि वाऽऽसाथ स्वशक्तिपरिणामतः ।। वत्रस्थः शमपेद्रोगान्वातपित्तकफारमकान् ॥ २१ ॥ १ ख. घ. दोस्थि तामासा' । 1