पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- कटसंरुद्धभागांना कटस्नेहनमिष्यते || तत्र ये हेतवः मोलाः कटश्रो (स्रो) तोनिरोधने ॥ ७८ ॥ शरशक्तवृष्टिखङ्गानां प्रतिघातैः पृथग्विधैः ॥ प्रतिहस्ता (स्त्य) भिघाताद्वा प्रकोपादनिलस्प च ॥ ७९ ॥ वृक्षाकारभित्तीनौ हरणावष्यतः कौ || ज्वलनाभिहि (ह) तस्यापि रुध्येते दन्तिनः कटौ ॥ २८० ॥ एवं बहुविधोपापैः संनिरुद्धकटो गजः ॥ • दानपूर्णापतकट स्तिष्ठत्पल्पपरिश्र (स्त्र)वः || ८१ || सलोष्टकाष्ठेर्मातङ्गः कटान्तमभिघर्षति । बहुराश्यावकिरति वालुकोदककर्दमैः ॥ ८२ ॥ लिङ्गैरेतैर्विजानीयात्संनिरुद्धकटं गजम् || कट श्रो(स्रो) तोविशुद्धयर्थं मिमं कुर्यादुपक्रमम् || ८३ ॥ भद्रदारुहरिद्राभ्यां लवणै लशुनैरपि || - [ ४ उत्तरस्थाने- विडङ्गैः पञ्चमूलाभ्यां संरत्नेन च दन्तिनः ॥ ८४ ॥ सर्पिः सिद्ध मनिर्दग्ध मन्तःश्रो (स्त्री) तः प्रदापयेत् || बस्तिदानेन नागस्य विशुद्धिरुपजायते ॥ २८५ ॥ माहिषं त्वथ गव्यं वा तत्र बस्ति तु ग्राहयेत् || तत्र नेत्रं दृढं बद्ध्वा काञ्चनं रौप्यमेव वा || ८६ ॥ कोरटं पुष्पवृन्ताग्रं सुलक्ष्णं सुसमाहितम् || द्वादशाङ्गुलमाथामं प्रवेशे त्र्यङ्गुलं भवेत् ।। ८७ ॥ मुद्रमात्रप्रमाणेन स्रोतसाऽथ समन्वितम् ॥ बस्तिदानेन नागस्यै कण्ठशुद्धिर्भविष्यति ॥ ८ ॥ अतो गुणान्प्रवक्ष्यामि विधिवद्द्वात्रसेचने || सर्वसेके च नागानां पथावदभिनिश्चितम् ॥ ८९ ॥ गुरुबन्ध्धाभिघाताभ्यां विरुद्धपरिवर्तनात् || विषमे कर्दमे निम्ने सलिले वाऽपि धावतः || २९० ॥ स्खलनेर्भर्त्सनैर्बन्धैः प्ररोधैर्वाऽपि दन्तिनाम् || अभिघातेश्च विविधैः स्वम्भो गात्रेषु जायते ॥ ९१ ॥ १ ख. सरसेन । २ क. °स्य विशुद्धिरुपजायते ॥८८ ॥ माहिण्ये (ण) कण्ठशुद्धिर्भविष्यति न संशयः । अ° ।