पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- परीक्ष्यकारिणं शूरं बलिगं शाखकोविदम् ॥ यशस्विनमलुब्धं च जितक्रोधं जितकमम् ॥ वैद्यं नियोजपेद्राजा प्रतिकर्मम हस्तिनाम् ॥ ५४ ॥ इति । तत्र श्लोकाः (कः) -- इति भिषगमुशिष्य बुद्धी शुभम शुभं च ततः शुभं व कुर्यात् ॥ विपुलबलपशोर्थकीर्तिहेतोर्विपुलगुणार्थी गजे परीक्ष्य ॥ ५५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्य स्थाने सर्मविद्धो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः । भङ्गराजो महामाज्ञः कुबेरसमविक्रमः || हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ भगवन्यत्त्वया प्रोक्तं रोगज्ञानं सलक्षणम् || तत्र मे संशयः कश्चित्तन्मे शंसितुमर्हसि ॥ २ ॥ शुद्ध श्लेष्मसमुत्पत्ति शुद्धपाकल आदितः || प्राग्भागोष्णः कथं विभ पश्चाद्भागन शीतलः ॥ ३ ॥ न चोग्णलक्षणं चेति हस्तिनां जायते ज्वरः || निदानलक्षणो होष पस्त्वयोक्तो महामुने ॥ ४ ॥ ● कथं साध्यश्च बालोऽयं कूटश्चायं न सिध्यति ॥ समानदोषैर्विमेन्द्र तावुभावपि कीर्तितो ॥ ५ ॥ पक्कलः पुण्डरीकश्च वातपित्तकृतावुभौ ॥ विकारेषु विरुध्येसे चिकित्सायां तथैव च ॥ ६ ॥ शनैः क्षीपेत वा केन हेतुना व मृदुग्रहः ॥ कथं च भूतसंसृष्टो दृष्टः कुक्कुटपाकलः ॥ ७ ॥ दैवाच के चिदिच्छन्ति दोषतश्चापरे जनाः ॥ एकाङ्क्षग्रहसंवस्तु पाकलो मुनिसत्तम ॥ ८ ॥ दृश्यते भूतसंसृष्टो दोषतश्च न दृश्यते ॥ स कृशत्वेन संयोज्यः कथं तीक्ष्णोषरानलः ॥ ९ ॥