पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । वामेन तु मुखाभ्यास उत्सानेनैव पाणिना || दक्षिणेन तु हस्तेन दृढं यां निपीडपेत् ॥ ४७ ॥ आहरेत्तु ततः शल्पं क्रियायोगेन दन्तिनाम् || त्वग्गतं शल्पमेवं स्यादाहर्तव्यं विजानता ॥ ४८ ॥ मांसोपचितदेहस्य मांसभागमुपास ( श्री ) तम् || यदा न दृश्यते शल्यं तस्य वक्ष्याम्युपक्रमम् ॥ ४९ ॥ स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्पमुद्धरेत् || शिराजालगतं शल्यं यदा नागे न दृश्यते ॥ ५० ॥ तस्योपायं प्रवक्ष्यामि यथा शल्पं प्रदृश्यते ॥ गोमूत्रं मण्डलं चैव लङ्घनं मर्दनं तथा ॥ ५१ ॥ व्यायाम कारपेत्तस्य तथैव विषमेऽध्वनि || भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात् ॥ ५२ ॥ शीघ्रं मच्यवते स्थानात्तस्मादेनं विचारयेत् || वेदनां कुरुते तीव्रां यत्र तेनोपनाइयेत् ॥ ५३ ॥ एपिण्या गतिमासाद्य पूर्ववच्छल्पमुद्धरेत् ॥ स्नायुजालगतं शल्यं वनजस्य न दृश्यते ॥ ५४ ॥ सिराजालगते शल्ये या क्रिया तां समाचरेत् || यदि संधिगतं शल्यं वारणस्य न दृश्यते ॥ ५५ ॥ चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा ॥ बद्ध्वा चङ्क्रमयेच्छींमं लघयेत्प्लावयदेपि ॥ ५६ ॥ संधौ व्यायच्छमानस्य रुजा शोफश्च जायते ॥ ततस्तं पूर्ववद्धद्ध्वा यत्रैः शल्पं समुद्धरेत् ॥ ५७ ।। पदा न दृश्यते शल्पमस्थिकायप्रतिष्ठितम् || बहुमांसशरीरत्वाद्द्वजानां तु नराधिप ॥ ५८ ॥ स्वभ्पक्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक् || यथोक्तां मांसदेशस्थे क्रियां तत्समाचरेत् ॥ ५९ ॥ अथ शल्यं न कम्पेत दृढं लमं यथा स्थितम् || वा (?)रङ्गमूले सद्ध्वा दृढरज्ज्वा समाहरेत् ॥ ६० ॥ स्रोतः स यदा शल्यं सिराणां संगमेषु च || घटयमेव तत्माझो ममंदेशे व यद्भवेत् ॥ ६१ ॥ ४६७