वा० भा०--ता मध्यमास्तनुकला: पृथकृस्थास्त्रिज्याशुकर्णयोरन्तरेण पृथग्गुण्या ग्रहस्य चलान्त्यफलज्यया त्रिगुणया भाज्याः ॥ लब्धेन पृथक्स्था युताः कार्याः ॥ यदि त्रिज्यातोऽल्पः शीघ्रकर्णः ॥ यद्यधिकस्तदा रहिताः कार्याः । एवं बिम्बकलाः स्पष्टा भवन्ति ॥ तत्र त्रिकलमङ्गुलं कल्प्यम् । कलास्त्रिभक्ता अङ्गुलानि भवन्तीत्यर्थः।
अत्रोपपतिरुपलब्धिरेव । यदा त्रिज्यातुल्य: शीघ्रकर्णस्तदा यावदुपलभ्यते तावन्मध्यमं बिम्बम्। त्रिज्यातोऽल्पे कर्ण भूमेरासनत्वात् तदुपचीयते । त्रिज्याधिके तु कणें ग्रहस्य भूमेर्दूरस्थितत्वाद्बिम्बस्यापचयः । तस्य बिम्बस्य त्रिभागः परम उपचयः । तथा परमापचयः । अवान्तरेऽनुपातेन । परमोपचयेऽपचयेप्युपलब्धिरेव वासना । सा चोपलब्धियंटिट्टियाग्रवेधेन प्रागुक्तैव । तत्रैवं यदा त्रिज्यातुल्यश्चलकर्णस्तदा यष्टिद्वयाग्रवेधेन यावद्बिम्बमुपलभ्यते ? तावन्मध्यमम्। अन्यफलज्योनत्रिज्यातुल्ये कणें यदुपलभ्यते तत् परम स्थूलम्। अन्त्यफलज्याधिकत्रिज्यातुल्ये कर्ण यदुपलभ्यते तत् परमं सूक्ष्मम्। एवं मध्ययपरमसूक्ष्मयोर्मध्यमपरमस्थूलयोवान्तरे मध्यमबिम्बस्य त्रिभाग एवोपलभ्यते । अतोऽवान्तरे तेनानुपातः । यद्यन्त्यफलज्यातुल्येन त्रिज्याशुकर्णविवरेण बिम्बत्रिभाग उपलभ्यते तदाभीटेन किमिति । त्रिज्यातोऽल्पे कर्ण फलेन मध्यम बिम्ब युतमधिके तु रहित स्फुट बिम्बं भवतीत्युपपन्नम्। २ ।।
इदानी युतिकालज्ञानार्थमाह-- |
वा० भा०-अभीष्टदिने ग्रहयोरन्तरकलास्तयोर्भुक्त्यन्तरेण भाज्याः । यदैकी वक्री तदा भुक्तियोगेन । लब्धेदिवसैर्युतिर्याता ज्ञेया । यद्यल्पभुक्तिरूनः। द्वयोयों वक्री स यच्यूनस्तदापि याता युतिः । इतोऽन्यथैष्या ॥ यदि द्वावपि वक्रौ तदाल्पभुक्तिर्यद्यूनस्तदेष्या ॥ यद्यधिकस्तदा याता युतिरिति वेदितव्यम् ।
अत्रोपपत्तिः-द्वयोरेकदिशं गच्छतोर्भुक्त्यन्तरमेव प्रत्यहमन्तरं भवति । यदैकोऽग्रतः प्राचीं गच्छत्यन्यः पृष्ठतः प्रतीचीं तदा तयोर्गतियोगः प्रत्यहमन्तरं भवति ॥ अतस्तेनानुपातः । यद्यतावता ग्रहान्तरेणेक दिन लभ्यते तदा ग्रहान्तरकलाभिः किमिति । लब्धदिनैर्युतिर्याता। लघुगतौ वक्रे ग्रहे वा · न्यूने यतस्तमतिक्रम्येतरो ग्रहोऽग्रतो गतः । द्वयोर्वक्रिणोरितोऽन्यथेति तदपि युक्तम्। ३-३३।।
अर्थवं स्थूलकालमानीय सूक्ष्मार्थमाह— |