सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/313

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
सिद्धान्तशिरोमणौ ग्रहगणिते

वक्षिणतः । तदा तिरश्चीनत्वात् क्रान्तिवृत्तस्य तत्रस्थो रविवृङ्मण्डलगत्यावलम्बितः क्रान्तिवृत्ताद्दक्षिणतो यावतान्तरेण दृश्यते तावती तस्य नतिः ॥ एवं वित्रिभलग्नं यदि खार्धान्नतमुत्तरतस्तदोत्तरा नतिः ॥ एवं चन्द्रस्यापि नतिः । किन्तु चन्द्रकक्षामण्डलं विमण्डलमेव कल्प्यम् । यतश्चन्द्रो विमण्डले भ्रमति । अतः खार्धाद्विमण्डलं यावता नर्त तावच्चन्द्रदृक्क्षेपस्य चापम् । तज्ज्या तद्दृक्क्षेपः । एवं वृक्क्षेपवशात् तिरश्चीने स्थिते विमण्डले सति दृङ्मण्डलगत्या विलम्बितस्य चन्द्रस्य विमण्डलेन सह · यदन्तरं दक्षिणोत्तरं सा चन्द्रनतिस्तस्य वृक्क्षेपादागच्छति ॥१०-१० ।।

 वा० वा०-दृक्क्षेपानयनमाह-दृग्ज्यैवेति । त्रिभोनलग्नशरसंस्कारो ब्रह्मगुप्तमतेनोक्तो न स्वमतेनेति वेद्यम् ।

 अत एव वासनाभाष्ये स्पष्ट वदति । शशिदृक्क्षेपार्थमिति । त्रिभोनलग्नशरासंस्करणे च युक्ति वदति यत्राऽक्षो जिनभागा इति स्पष्टं भाष्यम् ॥ १०-१० ।।

 इदानी दृक्क्षेपान्नतिसाधनमाह---

दृक्क्षेप इन्दोर्निजमध्यभुक्तितिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ ॥११॥

नती रवीन्द्वोः समभिन्नदिक्त्वे तदन्तरैक्य' तु नतिः स्फुटात्र ।

 वा० भा० - तौ चन्द्रार्कयोर्दूक्क्षेपी स्वस्वमध्यभुक्तिपञ्चदशांशेन गुणितौ त्रिज्याभक्ती फले तयोर्नती भवतः । तयोर्नत्योः समदिशोरन्तरं भिन्नदिशोर्योगो रविग्रहे स्फुटा नतिर्भवति ।

 अत्रोपपत्तिस्त्रैराशिकेन । यदि त्रिज्यातुल्येन दृक्क्षेपेण परमा भुक्तिपञ्चदशांशतुल्या नति लभ्यते तदेटेन किम्। फल नतिकलाः । अथ तयोनत्योयोंगवियोगकारणमुच्यते। यस्यां दिशि चन्द्रो नतस्तस्यां दिशि यदि रविस्तदा नित्योरन्तरेण चन्द्राकयोरन्तरं ज्ञातं भवति यदा भिन्न दिशौ नती तदा तयोर्योगेन चन्द्रार्कयोरन्तरमुत्पद्यते ॥१०-११॥

 इदानी स्फुटनतेरेवानयनमाह---

दृक्क्षेप इन्दोर्द्विगुणो विभक्तः क्विन्द्रैः १४१ स्फुटैवावनतिर्भवेद्वा' ॥१२॥

लघुज्यकोत्थो द्विगुणोऽक्षभक्तः षष्टयंशयुक्तोऽवनतिः स्फुटा वा ।

 वा० भा०-चन्द्रस्य दृक्क्षेपो द्विगुणो भूशक्रः १४१ भाजितः फलं स्फुटैवावनतिः ॥ यदि लघुज्यकोत्थो विधुदृक्क्षपस्तदा द्विगुणः पञ्चभक्तः फलं स्वषष्टश्यंशायुक्तं स्फुटैवावनतिर्भवेत् ।

 अत्रोपपत्तिः—तत्र स्वल्पान्तरत्वाच्छशिदृक्क्षेपतुल्यमर्कढुक्क्षेपं परिकल्प्य भुक्त्यन्तरपञ्चदशांशेनानुपातः ॥ यदि त्रिज्यातुल्ये वृक्क्षेपे भुक्त्यन्तरपञ्चदशांशमिता स्फुटा नतिर्लभ्यते


१. अत्र बापूदेवः--

त्रिभोनलग्नग्रहयोर्वियोगज्यका त्रिभोनाङ्गनरेण निघ्नी ।
विभाजिता खेचरहग्ज्यया सा हता च दृग्लम्बनलिसिकाभि:।।
भक्ता कलाभिः स्फुटलम्बनस्य फलस्य चापं नवतेविशोध्यम् ।
शेषं स्फुटः स्यान्नतिसंस्कृतेषुस्ताभ्यां नतेज्ञानमतिप्रसिद्धम् ।