सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/310

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६५
सूर्यंग्रहणाधिकारः

मर्थः । त्रिभोनलग्नघ्नतांशबाहुज्याया मध्यज्येति नाम कृतम् । मध्यकोटिज्याऽपि भवति । स्फुटे नतांशबाहुकोटिज्ये ये त एव दृग्क्षेपहग्गती भवतो नान्ये मध्यमे। अन्यथा पूर्व महतायासेन दृक्क्षेपदृग्गतिसाधनं किमर्थमभिदध्यात् ।

 सौरे तु त्रिभोनलग्नशङ्कवशेन लम्बननती साधिते। लम्बनाभावस्तु मध्यलग्नतुल्येऽर्के उक्त इति वैषम्यम् । अत्र त्रिभोनलग्नवशेनैव सर्वं साधितमिति युक्तम् ।

'इष्टापर्वात्ततां पृथ्वीं कक्षे च शशिसूर्ययोः।
भितौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोध्वगाम्।
एकं भूमध्यतः सूत्रं नयेच्चन्द्रांशुमण्डलम्।
द्रष्टुर्भूपृष्ठगादन्यद्-दृष्टिसूत्रं तदुच्यते॥
तल्लम्बनं स्मृतम्।
कक्षयोरन्तरं यत्स्यात् वित्रिभे सर्वतोऽपि तत्॥

 याम्योत्तरं नति इति गोले स्पष्टमुक्तम् । तद्दर्शनार्थं न्यासः । रविदृग्ज्याकर्णः । त्रिभोनलग्नट्टग्ज्या भुजः, दृङ्नतिः कोटि इति लम्बनानयने क्षेत्रमुपकल्पितम्। एवं त्रिभोनलग्नदृग्ज्यासाधितनतिलिप्ताः भुजः ।। रविदृग्ज्यासाधितदृग्लम्बनकलाः कर्णः । दृङ्नतिसाधितस्पष्टलम्बनकलाः कोटिरिति च। अत्र त्रिभोनलग्नट्टग्ज्यावर्गस्य रविद्दग्ज्यावर्गस्यान्तरं हुङ्नतिवर्ग इति स्पष्टम्। तत्र दृग्ज्यावगों नाम शङ्कवर्गोनस्त्रिज्यावर्ग इत्यनेन दृग्ज्यावर्गावानीय ‘संशोध्यमानं स्वमृणत्वमेति' इत्यनेन यावेदेव शडूवर्गान्तरं तावदेव दृग्ज्यावर्गान्तरमुत्पद्यते । त्रिज्याचतुर्थाशभक्तै रवित्रिभोनलग्नट्टग्ज्ये दृग्लम्बननतिसंज्ञे भवतस्तयोर्वर्गान्तरं स्फुटलम्बनलिप्ता इत्युक्तं ‘शङ्कोस्तयोर्दृग्गुणयोरनेन' । एवमाचार्येण धीवृद्धिदटीकायामन्यल्लम्बनक्षेत्रमुक्तम् । रविकक्षाव्यासाद्ध भुजः । भूगर्भभूपृष्ठक्षितिजान्तराले भूव्यासार्द्धं कोटिः । भूगर्भाद्भूपृष्ठक्षितिजपर्यन्तं सूत्रं कर्णः।

 एवं भूगर्भस्थे चन्द्रे चन्द्रकर्णयोजनानि भुजः । भूव्यासार्द्धं कोटिः प्राग्वत्कर्णः । एवं रविचन्द्रयोजनकर्णान्तरं भुजः। लम्बनयोजनानि कोटि:। वर्गेक्यपदं कर्णः। रविकर्णयोजनतुल्ये भुजे भूव्यार्द्ध कोटिस्तदा रविचन्द्रयोजनकर्णान्तरतुल्ये भुजे का कोटिरिति । लम्बनयोजनानि चन्द्रकक्षायाम् । ततशचन्द्रकर्णेन त्रिज्यामिताः कलास्तदैताभिः । किमिति परमलम्बनकलाः ॥ ४८॥४५ ।॥ भवन्ति । गत्यन्तरकलाभिः षष्टिघटिकास्तदैताभिः किमिति परमलम्बनघटिकाः भवन्ति । लम्बनं पूर्वापरमन्तरमिति तिथौ संस्क्रियते । नतिर्दक्षिणोत्तरमिति शरे संस्क्रियते । लम्बनमसकृत्साध्यम् ॥ २-७ ।।


१. सि० शि० गो० ग्रहणवा० १२ श्लो० ।
२. सि० शि० गी० ग्रहणवा० १४-१५ श्लो० ॥
३. सि० शि० गी० ग्रहणवा० १६ श्लो० ॥
सि०-३४