सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/280

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः २३५ अन्यथा श्रृङ्गोन्नतिर्न स्यात्। चन्द्रसूर्यग्रहणमपि न स्यात्। भौमादिग्रहबिम्बानि चन्द्रमण्डलवज्जलमयानीति सौरतन्त्रविदो वर्णयन्ति । पाञ्चभौतिकान्यपि जलप्राधान्याज्जलमयानीत्युच्यन्ते । सर्वेषो द्वैरूप्यमर्कमण्डलवत् ।

  • तेजसां गोलकः सूर्यो ग्रहक्षण्यम्बुगोलकाः । प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः । इति । कर्थ चन्द्रवच्छुङ्गाणि नोत्पद्यन्ते । तत्राह लल्ल:*— ऊध्वंगस्य नरदृष्टिगोचरं खेचरक्षनिवहस्य यद्दलम् । तत्सदार्ककिरणैः समुज्ज्वलं दृश्यते च तत एव सितम् । भार्गवेन्दुसुतयोरधः स्थयोर्दृश्यते यदसितं न चन्द्रवत् । तद्रवेनिकटवत्तिसूक्ष्मयोः सर्वमेव वपुरुज्ज्वलं भवेत् ॥ यथा रत्नघटमध्यस्थेन दीपेन भाभिर्घटं निभिद्य बाह्यभागेऽपि घटः सोज्वलः क्रियते तथा रविणापि निकटस्थिते बुधशुक्रबिम्बे सोज्ज्वले क्रियेते। रवेरूध्वस्थितस्य ग्रहभादेः चन्द्रवत्सूर्यग्रहणकक्तृत्वं सूर्यस्य बिम्बछादकत्वं न सम्भवत्येव । ऊध्र्वगस्य ग्रहभादेः षड्भान्तरितत्वासम्भवात् ।। सूर्यान्यदिशि छायेति प्रसिद्धम् ।

[ *रवेः षड्भान्तरितत्वासंभवात् ।। सूर्यान्यदिशि छायेति ] यथा दीपगणिते विनरदीपशिखौच्यकोटौ प्रदीपतलशडूतलान्तरं भुजस्तदा नरेण किमिति नरछाया भवति । तथा भूव्यासोनरविबिम्बकोटौौं रवियोजनकर्णतुल्यो भुजस्तदा भूव्यासयोजनतुल्यशङ्ककोटौ को भुज इति लब्धा भूभा योजनात्मिका २२०५८४ वेदाष्टबाणनखलोचनॅमिता । मात्र्तण्डमण्डलपृथुलत्वाल्लघुकन्दुकारभू मण्डलच्छाया सूच्यग्रा भवति । तत्र भूमण्डलमूले छायाविस्तृतिर्भूव्यासतुल्या भूछायान्ते शून्यं विस्तृतिः । भूमण्डलाच्छायायोजनान्ते भूव्यासतुल्यैवापचितिर्भवति । अतोऽनुपातः । एभिः २२०५८४ छायायोजनैर्भूव्यासतुल्यापचितिस्तदा चन्द्रकर्णयोजनैः किमिति चन्द्रमार्गेऽपचितिर्भवति । तत्र चन्द्रयोजनकर्णो भूव्यासेन गुणनीयः । भूव्यासोन्रविबिम्बभक्तेन रवियोजनकर्णभूव्यासघातेन भाज्यः । ‘छेदं लवं च परिवर्त्य’ इत्यनेन भूव्यासतुल्ययोर्मुणहरयोर्नाशे 'भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्ण भक्तम्' इत्यपचितिः । ‘भूविस्तृतिलब्धफलेन हीना' इति सम्यगुक्तम् । इयं भूछाया भानुतो भार्द्ध चन्द्रकक्षास्थक्रान्तिवृत्ते नित्यं भ्रमति । सूर्यस्तु स्वकक्षास्थक्रान्तिवृत्ते भ्रमतीति प्रागभिहितम् । सूर्यात् षड्भान्तरिता भूछायां यदा चन्द्रो विशति तदा चन्द्रग्रहणमिति लोकैरुच्यते । रवेर्भाद्धस्थ चन्द्रं सोज्ज्वलं कत्तु' प्रस्थिता रविकिरणा भूम्यैवावरुद्धाः न चन्द्रं प्रति गच्छन्तीति चन्द्रस्यादर्शनं भवति । यावच्चन्द्रमण्डलं न दृश्यते तावद्ग्रस्त१. सि० त० बि० ३ श्लो० । २. शि० धी० गो० मध्य० ४१-४२ ॥ ३. अयमंशो नास्ति ग पु० ।