सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/245

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
सिद्धान्तशिरोमणौ ग्रहगणिते

माह । पलश्रुतिघ्नस्त्रिगुणस्य वर्ग इत्यादि । त्रिज्यावर्ग: पलकणेंन गुण्यः । द्युज्याया इष्टकर्णस्य च घातेन भाज्य: । यत् फल लभ्यते सेष्टान्त्यका । तयेष्टान्त्यया रहिताया अन्त्याया यच्छेष .. तस्योत्क्रमेण धनुः कार्यम् । तस्य धनुषो यावत्यः कलास्तावन्तस्तस्मिन् काले नतासवो ज्ञेयाः ॥ तैर्नतासुभिरूनीकृता दिनदलासव उन्नतासवः स्युः ॥

 अत्रोपपत्तिव्र्यस्तत्रैराशिकेन । यद्युन्मण्डलकर्णेन चरज्येष्टान्त्यका लभ्यते तदेष्टकर्णेन किमिति । अथवा यदि मध्याह्नकर्णनान्त्यका लभ्यते तदेटच्छायाकर्णन किमिति । एवमत्रोभयत्र फलमिटान्त्यका भवति । अथान्यस्मिन् प्रकारान्तरे त्रैराशिकत्रयेणोपपतिः । यदीष्टच्छायाकर्णन द्वादशाङ्गुलशङ्कुलभ्यते तदा त्रिज्याकर्णेन क इति । अत्र त्रिज्याया द्वादशगुण इष्टकर्णो हरः फलं महाशङ्कुः । अथ तस्य हृतिकरणार्थमनुपातः । यदि द्वादशाङ्गुलशङ्कीविषुवत्कर्णः कर्णस्तदा महाशङ्कोः क इति । पूर्वं त्रिज्यायाः द्वादश गुणः ॥ इदानीं हरः । अतस्तुल्यत्वाद्द्वादशकयोर्गुणहरयोर्नाशे कृते सति त्रिज्ययाः पलकर्णो गुण इष्टच्छायाकणॉहरः । फलमिष्टहृतिः ॥ अथेष्टान्त्याकरणायानुपातः । यदि द्य ज्यया त्रिज्या लभ्यते तदेष्टहत्या किमिति । इदानीं त्रिज्या गुणो द्य' ज्या हरः । हरयोर्घातो हर इति द्युज्येष्टकर्णाहतिर्भवति । गुणयोर्घाते त्रिज्यावर्गः पलकर्णगुणितो भवति। एवं फलमिटान्त्यका। तया वजिताया अन्त्याया यदवशेष सा नतस्योत्क्रमज्या शरसंज्ञा । अतस्तस्या धनुरुत्क्रमेण स नतकालः स्यात् । नतकालो दिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम् ॥६६-६७' ॥

 इदानी विशेषमाह-

त्रिज्याधिकस्य क्रमचापयुक्ताः खखाब्धिबाणा धनुरुत्क्रमात् स्यात् ।।६८।।

 वा० भा०-यदेष्टान्त्यकावजिताया अन्त्यायाः शेष त्रिज्यातोऽधिक भवति तदा तस्मात् त्रिज्या शोध्या । शेषस्य क्रमचापलिसाः खखाब्धिबाणेर्युता उत्क्रमचापं भवति । ते तदा नतासवो भवन्तीत्यर्थः । अत्र यैवाधिकस्य क्रमज्याकरणे युक्तिः सैवाधिकस्य क्रमधनुःकरणे ॥६८॥

इदानीमुन्नतकालस्य प्रकारान्तरमाह-

इष्टान्त्यका सा चरजीवयोना युक्ता च गोलक्रमतः क्रमोत्थाः । तचापलिप्ताश्वरयुक्तहीनाः समुन्नतास्ते यदिवासवः स्युः ॥६९॥

 वा० भा०-अथवा सेष्टान्त्यकोत्तरगोले चरज्यया हीना दक्षिणे युता । ततस्तस्याः क्रमज्याभिश्रापम्। तदुतरगोले चरेण युत दक्षिणे हीन तत्काल उन्नaासवो भवन्ति। यदेष्टान्यकाया-श्वरज्योत्तरगोले न शुध्यति तदा चरज्याया इष्टान्त्या शोघ्या । शेषस्य चापं तत्र चरं क्षेप्यं तदिष्ह न क्षिप्यते व्यस्तविशोधने कृते योगे वियोगः सुधिया विधेय इति वचनात् तच्चिापं चराद्विशोध्यम् । शेषमुन्नतासवो भवन्ति । उन्नताद्दिनार्धाच्छोधितान्नतासवो भवन्ति ।

 अत्रोपपत्तिः । इष्टान्त्यकाकरणे या क्षेत्रसंस्था कथिता सैवेह तथापीषत् कथ्यते ।इष्टान्त्यकायाश्चरज्या यावदुतरगोले शोध्यते दक्षिणे तु क्षिप्यते तावदुन्मण्डलादुष्परितनकालस्य ज्या सूत्रसंज्ञा भवति । अतस्तस्या धनुरुत्तरगोले तून्मण्डलादधःस्थेन चरेण युतं दक्षिणे तूपरिस्थेन