सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/185

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
सिद्धान्तशिरोमणौ ग्रहगणिते

 ननुभाष्यकारपादैर्वक्रतासंभवमाहेति प्रागुत्तमथोदयास्तसंभवमाहेत्युच्यते-तत्र संभवपदोपादानं व्यर्थमिति चेतू । तत्रोच्यते । भौमस्यत्रिनृपेंद्राक्केन्द्रभागैर्यावच्छीघ्रगतिफलमानीयते तावन्मध्यगतितुल्यमृणमायाति ।

 तत्तु मन्दस्पष्टभुक्तेः शोध्यम् । शोधितेऽपि न सर्वदा शून्यं गतिर्भवति, मन्दस्पष्टभुक्तेर्मध्यगतिभिन्नत्वात् । यदा तु गतिशीघ्रफलं मन्दस्पष्टगतितुल्यमृणं च तदा वास्तवो वक्रमार्गारम्भः । एवं वास्तववक्रारम्भदिने शीघ्रकेन्द्रं त्रिनृपेभ्यो हीनाधिकमपि दृश्यते तस्मात्संभवपदं दत्तम् । अत एव सौरे वेदनृपतुल्यं वक्रसंभवकेन्द्रमुक्तम् । एवं दृक्कर्मसंस्कृतखगस्य स्पष्टार्कस्येष्टकालांशसाधनप्रकारेण पठितस्वीयकालांशतुल्यमन्तरं यदा तदोदयोऽस्तो वा भवतीति वास्तवम् ।

 यत्तु 'क्षितिजेऽष्टयमैरुदेति पूर्वं ‘इत्यनेनोदयाभिधानं तत्तु मध्यमार्कस्पष्टखगान्तरस्य कालांशतुल्येऽपि कदाचिदुदयो दृश्यत एवेति संभवाभिप्रायेण । अत्राकें मध्यमे लङ्कायाः क्षितिजसन्निधिगे सति ग्रहाः साधिताः । अपेक्षितास्तु स्वीयप्रदेशे स्पष्टाकोदयकाल इत्युदयान्तरचरदेशान्तररविफलानि संस्क्रियन्ते । सौरे तु मध्यमार्के लङ्कायास्तलस्थयाम्योत्तरवृत्तखण्डसन्निधिगे सति ग्रहाः साधिताः । अपेक्षितास्तु स्वीय प्रदेशतलस्थयाम्योत्तरवृतस्थे स्पष्टाकें । तस्मादुदयान्तरदेशान्तररविमन्दफलानि संस्कृतानि । यत्तु सौरभाष्येऽभिहितं ये मध्यमार्कजन्यार्द्धरात्रिकास्ते भुजान्तराख्यकर्मणा स्पष्टार्कजन्याद्धरात्रिकाः क्रियन्त इति । तत्र मध्यमार्केण जन्यं सम्बद्धं यदर्धरात्रं सिद्धपुरोपरिस्थयाम्योत्तरवृत्तं तात्कालिकमितिव्याख्येयम् । मध्यमार्के सिद्धपुरोपरिस्थयाम्योत्तरवृत्तस्थे सति ये ग्रहास्ते स्पष्टार्कयाम्योत्तरसम्बन्धकालीनाः क्रियन्त इति भावः । न तत्र मध्यमाकज्जन्यमुत्पन्नं यदर्द्धरात्रं तत्कालीना इति व्याख्येयम् ।

 अथ प्रकृतमनुसरामः । 'चरादिसंस्काराः ग्रहेषु कर्त्तव्यास्तत्र चरज्ञानं चरञ्ज्याज्ञाने तदवबोध: । कुज्याज्ञाने च कुज्याद्युज्याज्ञानं, क्रान्तिज्या ज्ञाने क्रान्तिज्याज्ञानं, सायनग्रहदोज्यज्ञाने तस्मादेताः पञ्चज्याः साधयितुं युज्यन्ते । तत्रायनांशज्ञानं ब्रह्मतुल्यकरणात् 'करणाब्दलिसायुक्ताभवा' इत्यादिना ।

 अथ पलभाज्ञानं वक्तव्यम् । ततः पञ्चज्यासाधनम् । ततो लङ्कातः सौम्यदेशे मनुष्यप्रचारं यावद्दिनरात्रिप्रमाणमुक्तम् । ततः चरसंस्कारः । ततो भुजान्तरकर्मार्थं लङ्गोदयसाधनम् ।

 अथ भुजान्तरमुदयान्तरं चोत्तम् । एतावता स्पष्टग्रहसाधनं कृतम् । ततो धर्मशास्त्राद्युपयुक्तं तिथिसाधनं नक्षत्रयोगकरणज्ञानं चोत्तम् । दृकसिद्धयर्थं ब्रह्मगुप्तमतेन न तत्कर्मीक्तम् । ग्रहस्य तात्कालिकीकरणम् । ततस्तिथ्यन्तपूर्णान्तकाले रविचन्द्रान्तरप्रतिपादनम् । ततः फलादेशार्थं सूक्ष्ममानयनम् । ततः सन्धिकालप्रतिपादनम् । एतस्योपपत्तिर्भाष्ये स्पष्टा ॥ ४२-७७ ॥


१. क्षितिजोष्ट .इति क ख पु० क्षितियोष्टम.इति ग पु० च । १. चारादि ग पु० ।