सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१२०७ । द्वन्द्वाच्छः । (४-२-६)

नक्षत्रद्वन्द्वाद्युक्ते काले छः स्याद्विशेषे सत्यसति च । तिष्यपुनर्वसवी यमहः । राधानूराधीया रात्रिः ।

१२०८ । दृष्टं साम । (४-२-७)

तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम । “ अस्मिन्नर्थेऽण डिद्वा वक्तव्य:’ (वा २६९०) । उशनसा दृष्टमौशनम्-औशनसम् ।

१२०९ । कैलेर्ढक् । (४-२-८)

(वा २६८९) । कलिना दृष्टं कालेयं साम ।

१२१० । वामदेवाडुयडुयौ । (४-२-९)

वामदेवेन दृष्टं साम वामदेव्यम् । सिद्धे यस्येति लोपेन किमर्थ ययतौ डितौ । ग्रहणं माऽतदर्थेऽभूद्वामदेव्यस्य नञ्स्वरे ।।' [इति भाष्यम् ।]

१२११ । परिवृतो रथः । (४-२-१०)


द्वन्द्वाच्छः ॥ तिष्यपुनर्वसवीयमहरिति ॥ तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः । राधानूराधीया रात्रिरिति ॥ राधेति विशाखानक्षत्रमुच्यते । राधा च अनूराधाश्च राधानूराधाः । तद्युक्ता रात्रिरित्यर्थः । दृष्टं साम ॥ तेनेत्येवेति ॥ अनुवर्तते एवेत्यर्थः । तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । अस्मिन्नर्थे इति ॥ 'दृष्टं साम' इत्यर्थे यः अण् सः डिद्वेत्यर्थः । औशन मिति ॥ आणि टिलोपपक्षे रूपम् । कलेढेक् ॥ वामदेवाडुयडुयौ । वामदेव्यमिति ॥ डित्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननु ‘यस्येति च' इति लोपेन सिद्धे किमर्थमिह डित्करण मिति चेत्सत्यम् । यतोरेव विधौ “यतोश्चातदर्थे' इति नञः परस्य यदन्तस्यान्तोदात्त स्वरविधौ अनयोहणाभावार्थं डित्करणम् । तथाच वामदेव्यमित्यत्रायं स्वरो न भवति । डित्करणे सति तु स्वरविधावनयोर्न ग्रहणम् । 'निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहणम् इति परिभाषया वा ‘तदनुबन्धकग्रहणे सति नातदनुबन्धकस्य’ इति परिभाषया वा तन्निवृत्तिर्भव ति । एते तु परिभाषे इहैव ज्ञाप्येते । एतत्सङ्गाहकम्भाध्यस्थं श्लोकम्पठति। सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । “यस्य’ इति लोपेन सिद्धे ययतौ किमर्थण्डितौ कृतावित्यर्थः । ग्रहण मिति ॥ वामदेव्यशब्दस्य नञ्स्वरे नञाश्रयस्वरविधौ अतदर्थे “यतोश्चातदर्थे' इति सूत्रे अनयोड्यड्योर्ग्रहणं माभूदित्येतदर्थण्डित्करणमित्यर्थः । परिवृतो रथः ॥ तेनेत्यनुवर्तते । १. कलेर्ढगिति वार्तिकम्-इति शेखरकृत् ।