सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११४४ । केकयमित्रयुप्रलयानां यादेरियः । (७-३-२)

एषां यकारादेरियादेशः स्यात् ञिति णिति किति च तद्विते परे । इति इयादेशे प्राप्त ।

११४५ । दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशि नायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि । (६-४-१७४)

एतानि निपात्यन्ते । इति युलोपः। मैत्त्रेयः। मैत्रेयौ ।

११४६ । यस्कादिभ्यो गोत्रे । (२-४-६३)

एभ्योऽपत्यप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । मित्रयवः ।


प्राप्त इति ॥ मित्रयोरपये ढनि एयादेशे मित्त्रयु एय इति स्थिते ओर्गुणम्बाधित्वा यु इत्यस्य इयादेशे सति आदुणे मैत्त्रेयेय इति प्राप्त सतीत्यर्थः । दाण्डिनायन । एतानि नि पात्यन्ते इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः, हास्तिनायनः । नडादित्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्तो ग्रन्थः उपचारादथर्वा । तमधीते आथर्वणिकः । वसन्ता दित्वात् ठक् । निपातनान्न टिलोपः । जिह्मशिनोऽपत्यजैह्माशिनेयः । शुभ्रादित्वाड्ढक् । निपात नान्न टिलोपः। वाशिनोऽपत्यं वाशिनायनिः । “उदीचां वृद्धात्' इति फिञ् । निपातनान्न टिलोपः । भ्रूणहन् धीवन्, एतयोर्भावे ष्यञ् । नकारस्य तकारश्च निपात्यते । नच 'हनस्तोऽचि एणलेोः' इत्यनेनैव तकारस्सिद्ध इति शङ्कयम् । 'धातोः कार्यमुच्यमानन्तत्प्रत्यये विज्ञानम् इति परिभाषया “हनस्तः' इति तत्वस्य धातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकार निपातनमस्याम्परिभाषायां ज्ञापकामिति 'मृजेवृद्धिः' इत्यत्र भाष्ये स्पष्टम् । तेन वार्त्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् उदकम् । आणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाको रपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्त्रियादञ् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाकेत्यत्र अणन्तयाग्रहणम् । बहुत्वे तद्राजत्वादञ्जा लुक् । अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि णकाराद्यकाराकारयोलॉपः । इति युलोप इति । मित्त्रयु एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्त्रेयीति 'टिड्ढाणञ्' इति डीप् । यस्कादि भ्यो गोत्रे ॥ नेदं सूत्रमपत्याधिकारस्थम्, किन्तु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्याय प्रसिद्धमेव गोत्रमिह विवक्षितम् । “अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते” इति 'यूनि लुक्, स्त्रीपुंसाभ्याम्' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वात् । “ण्यक्षात्रियार्ष' इत्यतो लुगिल्यनु वर्तते । “तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रन्तद्राजवर्जमनुवर्तते । तदाह । एभ्योऽपत्य प्रत्ययस्येति ॥ मित्त्रयव इति ॥ मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टयादिढको लुकि