पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
६७५
बालमनोरमा ।

१०९१ । भ्रातरि च ज्यायसि । (४-१-१६४)

ज्येष्ठ भ्रातरि जीवति कनीयांश्चतुर्थादिर्युवसंज्ञश्च स्यात् ।

१०९२ । वान्यस्मिन्सपिण्डे स्थविरतरे जीवति । (४-१-१६५)

भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्त्रप्रभृतेरपत्यं जीवदेव युव संज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहभ्रातरि वा जीवति । गार्ग्यस्यापत्यं गार्ग्यायण:-गार्ग्यो वा । “ स्थविर-' इति किम् । स्थानवयोन्यूने गार्ग्य एव । “ जीवति' इति किम् । मृते मृतो वा गार्ग्य एव । ' वृद्धस्य च पूजायामिति वाच्यम् ' (वा २६५४) । गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्र भवान्गार्ग्यायणः| ' पूजा-' इति किम् । गार्ग्यः ।' यूनञ्च कुत्सायां गोत्रसंज्ञेति वाच्यम् (वा २६५१) । गार्ग्यो जाल्म : । “कुत्सा-' इति किम् । गार्ग्यायणः ।


फक्फिञोः अलुक् प्रसज्येतेत्यलम् । भ्रातरि च ज्यायसि ॥ जीवतीत्यनुवर्तते । तदाह । ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः । पौत्रप्रभृतीत्यनुवृत्तं षष्ठया विपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्त्रादेरपत्यमित्यर्थः । फलितमाह । चतुर्था दिरिति ॥ मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् । वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे । पौत्त्रप्रभृतेरपत्यञ्जीवदेव युवसंज्ञं स्यादिति । सपिण्डास्तु स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषा: । एवम्मातृवंशेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः अतिवृद्धः । जीवतीति सप्तम्यन्त मनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रत्यन्तु जीवतिपदं तिडन्तम् अपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति साति पौत्रप्रभृते रपत्यञ्जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीय मिति । अनुवर्तमानमित्यर्थः । उभयोरिति हेतुत्वसम्बन्धे षष्ठी । उभयहेतुकोत्कर्षवाचक स्तरबित्यर्थः । तदेव विवृणोति । स्थानेन वयसा चेति । स्थानतः उत्कृष्टः पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो मातामहः । भ्रातरीति सन्निहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित्, पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति ॥ जीवतिद्वयस्य किम्प्रयोजनमिति प्रश्रः । मृते मृतो वा गाग्र्य एवेति । मृते सपिण्डे चतुर्थो गार्ग्य एव । मृतश्च चतुर्थो गार्ग्य एवेत्यर्थः । वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति । गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेव वृद्धमिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः । तथाच वार्ति कस्य फलितमर्थमाह । गोत्रस्य युवसंज्ञा पूजायाङ्गम्यमानायामिति । उदाहरति ।