सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०८
[प्राग्घितीय
सिद्धान्तकौमुदीसहिता

१६२९ । न भकुर्छुराम् । (८-२-७९)

भस्य कुर्छुरोश्चोपधायाः दीर्घों न स्यात् । धुर्यः-धौरेयः ।

१६३० । खः सर्वधुरात् । (४-४-७८)

सर्वधुरं वहतीति सर्वधुरीणः ।

१६३१ । एकधुराल्लुक्च । (४-४-७९)

एकधुरं वहति एकधुरीणः-एकधुरः ।

१६३२ । शकटादण् । (४-४-८०)

शकटं वहति शाकटो गौः ।

१६३३ । हलसीराठ्ठक् । (४-४-८१)

हलं वहति हालिकः । सैरिकः ।

१६३४ । संज्ञायां जन्या । (४-४-८२)

जनी वधूः । तां वहति प्रापयति जन्या ।

१६३५ । विध्यत्यधनुषा । (४-४-८३)


युगावयवो धूः । धुर्शब्दात् यति 'हलि च' इति दीर्घे प्राप्ते सतीत्यर्थः । न भकुर्छुराम् । ‘र्वोरुपधायाः’ इत्यतः उपधाया इति दीर्घ इति चानुवर्तते । तदाह । भस्येत्यादिना । धूर्वहे धुर्यधौरेयधुरीणाः' इत्यमरः । खः सर्वधुरात् ॥ सर्वा धूः सर्वधुरा “पूर्वकाल' इति तत्पुरुषः । 'ऋक्पूः' इति समासान्तः । 'परवालिङ्गम्' इति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपा पेक्षया नपुंसकनिर्देशः द्वितीयान्तात्सर्वधुराशब्दात् वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः । “स तु सर्वधुरीणो यो भवेत् सर्वधुरावहः” इत्यमरः । एकधुराल्लुक् च । एकधुराशब्दात् द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः-एकधुर इति । एकधुरां वहतीत्यर्थः । शकटादण् ॥ द्वितीयान्ताच्छकटशब्दात् वहतीत्यर्थे अण् स्यादित्यर्थः । यतोऽपवादः । हलसीराट्टक् ॥ आभ्यान्द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः । संज्ञायाञ्जन्या ॥ जनीशब्दात् द्वितीयान्तात् वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थे जनिघसिभ्या मिति जनधातोः इणि ‘जनिवध्योश्च' इति वृद्धिप्रतिषेधे “कृदिकारात्’ इति डीषि । जनीशब्दस्य निष्पतेरिति भावः । “समास्नुषाजनीवध्वः' इत्यमरः । वहन्तीत्यस्य विवरणम्प्रापयन्तीति । वरगृहमिति शेषः । जन्या इति ॥ जामातुर्वयस्या इति शेषः । “जन्या स्निग्धा वरस्य ये” इत्यमरः । विध्यत्यधनुषा ॥ तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषः अभावः अधनुः तस्मिन्सतीत्यर्थः । अर्थाभावे नञ्तत्पुरुषः । अर्थाभावे अव्ययीभावेन