सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८०१
बालमनोरमा ।

१५९० । प्रतिकण्ठार्थललामं च । (४-४-४०)

एभ्यो गृह्णात्यर्थे ठक्स्यात् । प्रतिकण्ठं गृहाति प्राप्तिकण्ठिकः । आर्थिकः लालामिकः ।

१५९१ । धर्मं चरति । (४-४-४१)

धार्मिकः । “ अधर्माच्चेति वक्तव्यम्' (वा २९६६) । आधर्मिक ।

१५९२ । प्रतिपथमेति ठंश्च । (४-४-४२)

प्रतिपथमेति प्रतिपथिकः । प्रातिपथिकः ।

१५९३ । समवायान्समवैति । (४-४-४३)

सामवायिकः । सामूहिकः ।

१५९४ । परिषदो ण्यः । (४-४-४४)

परिषदं समवैति पारिषद्यः ।

१५९५ । सेनाया वा । (४-४-४५)

ण्यः स्यात् । पक्षे ठक् । सैन्याः-सैनिकाः ।

१५९६ । संज्ञायां ललाटकुक्कुट्यौ पश्यति । (४-४-४६)

ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशव्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते । कौक्कुटिको भिक्षुः ।


तस्मात् द्वितीयान्तात् गृह्णातीत्यर्थे ठक् स्यादित्यर्थः । प्रतिकण्ठार्थः ॥ एभ्य इति ॥ प्रतिकण्ठ, अर्थ, ललाम, इत्येभ्यः इत्यर्थः । आर्थिक इति ॥ अर्थङ्गृह्लातीत्यर्थः । लालामिक इति ॥ ललामं चिहं तद्गृहातीत्यर्थः “लिङ्गं ललामञ्च ललाम च' इत्यमरः । धर्मञ्चरति ॥ चरतीत्यर्थे द्वितीयान्तात् धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ॥ “प्रहणवत्ता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्ताग्रहणादप्राप्ते आरम्भः । प्रतिपथमेति ठंश्च ॥ प्रतिपथ मित्यव्ययीभावात् एतीत्यर्थे ठन् ठक् च स्यादित्यर्थः । प्रतिपथमिति “लक्षणेनाभिप्रती आभि मुख्ये' इत्यव्ययीभावः । ‘ऋक्पूः' इति समासान्तः । समवायान् समवैति । द्वितीया न्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति मेलयतीत्यर्थः । परिषदो ण्यः ॥ तृतीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः । सेनाया वा ॥ ण्यः स्यादिति ॥ शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात् समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः-सैनिका इति ॥ सेनां मेळयन्तीत्यर्थः । संज्ञायाम् ॥ ललाटकुक्कुटीशब्दाभ्यान्द्वितीयान्ताभ्यां पश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा रूढिः, न त्वाधुनिकः सङ्केतः । लालाटिकः सेवक इति ॥ दूरे स्थित्वा प्रभोर्ललाटं 101