सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । ७५३ अथ चतुर्थस्य तृतीयः पादः। १३७० । युष्मदस्मदोरन्यतरस्यां खञ्च । (४-३-१) चाच्छः । पक्षेऽण् । युवयोः युष्माकं वा अयं युष्मदीयः । अस्मदीयः । १३७१ । तस्मिन्नणि च युष्माकास्माकौ । (४-३-२) युष्मदस्मदोरेतावादेशौ स्तः खयणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ।। १३७२ । तवकममकावेकवचने । (४-३-३) एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीन:- तावकः । मामकीन:-मामकः । छे तु । १३७३ । प्रत्ययोत्तरपदयोश्च । (७-२-९८) मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु, त्वत्पुत्रः । मत्पुत्रः । ___ अथ चतुर्थस्य तृतीयः पादः प्रारभ्यते ॥ युष्मदस्मदोरन्यतरस्याङ्खञ् च ॥ युष्म- दस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी। युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ् स्यादित्यर्थः। चाच्छः। गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयते इत्यर्थः । पक्षेऽणिति ॥ अन्यतरस्याङ्ग्रहणादिति भावः । अत्र युष्म- दस्मदोः, इति योगो विभज्यते। आभ्याञ्छो भवतीत्यर्थः । खञ्च, इति योगान्तरम् । आभ्यां खञ् च भवतीत्यर्थः । अन्यतरस्यामिति योगान्तरम् । आभ्याञ्छखञौ वा स्तः पक्षेऽणिति। अतो न यथासङ्ख्यमिति भाष्ये स्पष्टम् । युष्मदीय इति ॥ द्विवचनान्ताद्बहुवचनान्ताच्च इया- देशः । सुब्लुकि युवादेशस्य निवृत्तिः। तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेर्लुप्त- त्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति ॥ आवयोरस्माकं वा अयमित्यर्थः। अथ खञि अणि च विशेषमाह । तस्मिन्नणि च ॥ पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह । खञि अणि चेति ॥ अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यम् , न तु परनिमित्तयोः। तस्मिन्नणि, इति व्यस्तनिर्देशात् । यौष्माकीण इति ॥ युवयोर्युष्माकं वा अयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः, आदिवृद्धिः, णत्वं, सुब्लुकि युवादेशनिवृत्तिः। आस्माकीन इति ॥ आवयोरस्माकं वा अयमिति विग्रहः । आणि उदाहरति । यौष्माकः, आस्माकः इति ॥ तवकममकौ ॥ एकवचने इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्-उक्तिः एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह । एकार्थवाचिनोरिति ॥ छे त्विति ॥ एकार्थवृत्तयोर्विशेषो वक्ष्यते इति शेषः । प्रत्ययोत्तरपदयोश्च ॥ साप्तमिक- मिदम् । त्वमावेकवचने इत्यनुवर्तते । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतम् । तदाह । मपर्यन्तयोरित्यादि ॥ त्वदीयः। मदीयः इति ॥ P95