सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३१
बालमनोरमा


४२ । अलोऽन्यस्य । (१-१-५२)

षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेश स्यात् ।

४३ । ङिच्च । (१-१-५३)

अयमप्यन्यस्यैव स्यात् ।–“सर्वस्य' (सू ४५) इत्यस्यापवाद् ।

४४ । आदेः परस्य । (१-१-५४)

परस्य यद्विहितं तत्तस्यादेर्बौद्धयम् । * अलोऽन्त्यस्य' (सू४२) इत्यस्यापवाद. ।


प्रस्थानम् । इह उदस्स्थास्तम्भ्वोरिति पूर्वसवर्णो न भवति । अलोऽन्त्यस्य ॥ अलिति प्रत्या हारो वर्णपर्याय । अल इति षष्ठयन्तम् । “पष्ठा स्थाने योगा' इत्यत षष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्त तृतीयान्ततया विपरिणम्यते । निर्दिष्टस्येति शेष । स्थाने इत्यनन्तर विधीयमान इति शेष । स्थाने विधीयमान आदेश षष्ठीनिर्दिष्टस्य य अन्त्य अल् तस्य स्यादित्यर्थ । तदाह । षष्ठीत्यादिना ॥ ल्यादादीनाम । य । स । आदेश इति किम् । आर्द्ध धातुकस्येट् तृच ऋकारात् पूर्वो माभूत् । अल इति किम् । पदस्येत्यधिकृत्य विधीयमान वसुस्रस्विति दत्व परमानडुद्यामित्यत्र अन्त्यस्य कृत्स्रस्य पदस्य माभूत् । ङिञ्च ॥ डकार इत् यस्य स डित् । अलोन्त्यस्येत्यनुवर्तते । तदाह । अयमपीति ॥ डिदपीत्यर्थ । अवड् तातड्, अनड्, इत्यादिरादेश उदाहरणम् । नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थ मित्यत आह । सर्वस्येति । “ अनेकाल् शित् सर्वस्य’ इति वक्ष्यमाणस्य सर्वादेशत्वविधेरय विधिरपवाद । अपोद्यते बाद्यते अनेनेति अपवाद । बाहुळक । करणे घज् । येनाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्तति भावे क्त । येनेति कर्तरि तृतीया । द्वौ नञ्जावावश्यकत्व बोधयत । यत्कर्तृकावश्यकप्राप्तौ सत्या यो विधिरारभ्यते स आरभ्यमाण विधि तस्य अवश्यप्राप्तस्य अपवाद बाधक इति तदर्थं । अयञ्च न्यायसिद्ध । अवडादयो हि डित आदेशास्सर्वे अनेकाल एव । तेषु चानेकाल्विशेषेषु विधीयमानेन डितामन्त्यादेशत्वेन स्वविषये अवश्य प्राप्त अनेकाल् सामान्येन विहित सर्वदेशत्व बाध्द्यते । विशेषविहितत्वान्निर वकाशत्वाच। विशेषशास्त्र हि विशेषेषु झटिति प्रवर्तते । विशेषाणा स्वशब्देनोपात्तत्वात् । सामान्यशास्त्रन्तु सामान्यमुखेन विशेषषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्ति । अतो विशेष शास्त्र प्रबलम् । उक्तञ्च भट्टवार्तिके “ अवश्यमेव सामान्य विशेष प्रति गच्छति । गतमात्रञ्च तत्तेन विशेषे स्थाप्यते ध्रुवम्’ इति । किञ्च यदि डिच्चेति शास्त्र अनेकात्विशेषेषु डित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् । अनेकाल्शित् सर्वस्येत्यस्य तु डित्सु अप्रवृत्तावपि नानर्थक्यम् । तस्थस्थमिपा तान्तन्ताम । अस्तेभूरित्यादिष्वनेकाल्षु अडित्सु तस्य सावका शत्वात् । अतो विशेषशास्र प्रबलमिति । आदेः परस्य ॥ परस्येति ॥ द्यन्तरुपसर्गेभ्योऽप ईदित्यादौ तस्मादित्युत्तरस्येति परिभाषया परस्य नियमित कार्य यत् तत्तस्यादेरेव भवति । नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थ । तदाह । अलोन्त्यस्येत्यस्यापवाद् इति ॥ तत्र अल