पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३०
[उणादिषु
सिध्दान्तकौमुदीसहिता


४५३ । खजेरावकः । खजाकः पक्षी ।

४५४ । बलाकादयश्च । बलाका । शलाका । पताका ।

४५५ । पिनाकादयश्च । पातेरित्वं नुम् च । “झीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनाः । 'तड आघाते' । तडाक ।

४५६ । कषिदूषिभ्यामीकन् । कषीका पक्षिजातिः । “दूषीका नेत्रयो मलम्

४५७ । अनिहृषिभ्यां किच । अनीकम् । हृषीकम् ।

४५८ । चङ्कणः कङ्कणश्च । ' कण शव्दे' अस्माद्यङ्लुगन्तादीकन् धातो कङ्कणादेशश्च । “ घण्टिकायां कङ्कणीका सैव प्रतिसरापि च' ।

४५९ । शृपृवृञ्जां द्वे रुक्चाभ्यासस्य । शर्शरीको हिंस्र । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेश: ।

४६० । पर्फरीकादयश्च । “स्फुर स्फुरणे' । अस्मादीकन् धातोः पपकरा देशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झईरीकं शरीरम् ।


अत्रायं विवेकः । आद्यमन्त्रऽन्तादात्तत्व न्याय्यम् । अवग्रहाभावो बाहुलकात् । द्वितीये तु अवग्रहाभावो न्याय्य । अन्तोदात्तस्तु बाहुलकादिति । खजाक इति ॥ 'खज मन्थे बलाकादयश्च ॥ “बलाका बकपतिः स्यात् बलाका बिसकण्ठिका । बलाका कामुकी प्रेोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ । ‘शलाका शल्यमदनशारिकासछकीषु च ' इति मेदिनी। पताका वैजयन्त्याश्च सौभाग्ये नाटकाङ्कयो.’ इति च । 'पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्व । पिनाकादयश्च ॥ “पिनाकोऽस्त्री रुद्रचापे पासुवर्षत्रिशूलयोः’ इति मेदिनी । अमरोक्तिमाह । कृीबेति ॥ किञ्च “पिष्ल सञ्चूर्णने' । षकारस्य णत्वं धातोर्युगागम । ‘पिण्याकोऽस्त्री तिलकल्के हिडुबाहीकसिल्हके' इति मदिनी । अमरोक्तिमाह । दूषीकेति ॥ किञ्च दूषयते ‘अच इ' इति इप्रत्यये दूषिः । 'कृदिकारात्' इति डीष् । दूषी । उभाभ्यामपि खार्थे कनि दूषिका हृस्वमछैव, “केऽण.’ इति डीषो हस्वादेशात् । “पिचण्डी दूषिका दूषिः पिचाठञ्च दृशो मलम्' इति विक्रमादित्यकोश . । “दूषिका तूलिकायाञ्च मले स्यालोचनस्य च' इति मेदिनी । अनिहृषिभ्यां ॥ 'अनीकोऽस्त्री गणे सैन्येऽपि ” इति मेदिनी । “हृषीक विषयीन्द्रियम्' । पर्फरादेश इति ॥ उज्ज्वलदत्तरीत्योक्तम् । इत्यमर वस्तुतस्तु धातोर्द्धित्वम् । उकारस्याकारः सलोपः । 'रुक् च भ्यासस्य ' इति दशपाद्युक्तमेव न्याय्यम् । चरेर्नुम् चेत्युत्तरग्रन्थानुरोधेन द्वे रुक्चेत्यादेरनुवृत्तेन्र्याय्यत्वात् । किसलयमिति ॥ नैतैौशेव तुर्फरीपर्फरीका' इति मन्त्रस्य वेदभाष्ये तु 'नि फला विशरणे, पृ पालनपूरणयोः पर्व पूरणे' एषामन्यतमस्य निपातनमिदमाश्रित्य शत्रूणां विदारयितारः स्तोतृणां पालका