पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६२१
बालमनोरमा ।

३६७ । नञ्ज्याप इट् च । नापितः ।

३६८ । तनिमृड्भ्यां किच । ततम् । मृतम् ।

३६९ । आञ्जिघृसिभ्यः क्तः । अक्तम् । घृतम् । सितम् ।

३७० । दुतनिभ्यां दीर्घश्च । दूतः । तातः ।

३७१ । जमूट् चोदात्तः । जीमूतः ।

३७२ । लोष्टपलितौ । लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् ।


धूत इति ॥ ' धुर्वी हिसायाम् । ' लोपो व्यो’ इति वलेोप. । क्डितीत्यननुवृत्तिपक्षे तु रालोप.’ इति लोपः । “हलि चव ' इति दीर्घः । 'धूर्तन्तु खण्डलवणे धुतूरे ना शठे त्रिषु इति मेदिनी । तनिमृङ्भ्याम् ॥ “तत वीणादिक वाद्यम्' इत्यमरः । ‘अथ ततं व्याप्त विस्तृते च त्रिलिङ्गकम् । कृीब वीणादिवाद्ये स्यात् पुलिङ्गस्तु समीरणे । मृतन्तु याचिते मृत्यौ कृीब मृत्युमति त्रिषु' इति मेदिनी । अञ्जिघृ ॥ अक्त परिच्छिन्नम् । 'अक्तपरिमाणस्य वाचकः इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् । अत्र ‘व्यस्त प्राप्त च सडुले' इति विश्वप्रकाशे लिपि भ्रमात् “अक्त व्याग्रे च सडुले' इत्युदाहरन्नुज्ज्वलदत्तो भ्रान्तत्वादुपेक्ष्य' । तथा च मेदिन्यां वकारादिप्रक्रमे “व्यस्तन्तु व्याकुले व्याप्त ’ इत्युक्तम् । 'घृतमाज्ये जले कृोब प्रदीसे त्वभिधेय वत् । सितमवसिते च बद्धे धवले त्रिषु शर्कराया त्री' इति मेदिनी । 'ऋ गतौ' । बाहुलकात् क्तः । 'ऋतमुञ्छे शिले जले । सत्ये दीझे पूजिते स्यात्' इति मेदिनी । दुतनिभ्याम् ॥ दूतः प्रेष्यः । गौरादित्वात् डीषु । दूती । अथ कथ, तेन दूतिविदितं निषेदुषा' इति रघु दूत्यान्दूतिरपि स्मृता' इति द्विरूपकोश ताताऽनुकम्प्य जनके' इति विश्वमेदिन्यौ । बाहुलकात् शीडोऽपि । शीता लाङ्गलपद्धति । रामपत्री च । शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशाननरिपो. सहधर्मिणी व । शीत स्मृत हिमगुणे च तदन्विते च शीतोऽलसेस च बहवारतरौ च दृष्ट.' इति तालव्यादौ धराणि . । सीता दन्त्यादिरपि । ‘सीता लाङ्गलपद्धतिः । वैदेहीस्वर्गगङ्गासु' इति दन्त्यादौ मेदिनीकोशात् । सीता लाङ्गलरेखा स्यात् व्योमगङ्गा च जानकी' इति दन्त्यादौ रभसकोशाच । अत्र त्यक्त सूत्रम् । जेट् चोदात्तः ॥ 'जि जये' । अतः क्तः, तस्य मूडागमः, स चोदात्तः धातो दीर्घश्च । 'जीमूतस्येव भवति । । ‘जीमूतोऽद्रौ भूतिकरे देवताडे पयोधरे' इति मेदिनी । वेणी गरागरीदेवताळेो जीमूत इत्यपि ' इत्यमर । “जीमूतः स्यात् वृत्तिकरे शक्रेऽद्रौ घोषके घने' इति विश्व. । इद सूत्रमनार्षमिति पुरुषोत्तम । अत एव आकरे पृषोदरादिषु जीमूतशब्दः उदाहृतः । लोष्ट ॥ “लोष्टानि लोष्टवः पुसि' इत्यमरः । अत्र पुसीत्युभयान्वयि । तेन पुंनपुंसकलिङ्गोऽयम् । तथा च स्थानेऽन्तरतमसूत्रे भाष्यम् । लोष्टः क्षिप्तो बाहुवेगङ्गत्वा इत्यादि । अत एव “लोष्टः पिण्डेऽपि लोष्ट स्यात्' इति पुस्काण्डे गोपालितः । “पलित