पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१८
[उणादिषु
सिध्दान्तकौमुदीसहिता


३४३ । प्लुषेरचोपधायाः । पृक्षः ।

३४४ । मनेदीर्घश्च । मांसम् ।

३४५ । अशेर्देवने । अक्षः ।

३४६ । स्नुव्रश्चिकृत्यूषिभ्यः कित् । लुषा । वृक्ष । कृत्समुदकम् । ऋक्षं नक्षत्रम्

३४७ । ऋषेजतौ । 'ऋक्षेोऽद्रिभेदे भल्लूके शोणके कृतवेधने । ऋक्ष मुक्तश्च नक्षत्रे' इति विश्वः ।

३४८ ॥ उन्दिगुधिकुषिभ्यश्च । उत्सः प्रस्रवणम् । गुत्सः स्तबकः । कुक्षेो जठ२म्

३४९ ॥ गृधिपण्योर्दकौ च । गृत्सः कामदेवः । पक्षः ।

३५० । अशः सरः । अक्षरम् ।

३५१ । वसेश्च । वत्सरः ।


फलिता । 'वर्षोंऽस्त्री भारतादौ स्याज्जम्बूद्वीपाब्दवृष्टिषु । प्रावृट्काले स्त्रियां भून्नि' इति मेदिनी । “तर्षों लिप्सोदन्ययो' इति च । ‘पुत्रादौ तर्णके वर्षे वत्सः झीबन्तु वक्षसि' इति त्रिकाण्डशेष । “हस. स्यान्मानसौकसि । निलॉभनृपविष्ण्वर्कपरमात्मसु मत्सरे । योगभेदे मन्त्रभेदे शरीरमरुदन्तरे । तुरङ्गमप्रभेदे च' इति मेदिनी । “कसोऽस्त्री तैजसे द्रव्ये कास्ये मानेऽसुरे तु ना' इति च । ‘कसो दैत्यान्तरे स्मृतः । कास्ये च कास्यपात्रे च मानभेदे च कीर्तितः’ इति विश्वः । 'कक्षा स्यादन्तरीयस्य पश्चादञ्चलपछवे । स्पद्धया ना तु दोमूल कच्छवीरुतृणेषु च' इति मेदिनी । प्लुषेः ॥ 'लक्षो जटी गर्दभाण्डद्विपभित्कुञ्जराशने' इति मेदिनी । “ ठक्षेो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपाश् च गृहस्य परिकीर्तित इति विश्व. । मनेर्दीर्घश्च ॥ मांस स्यादामिषे कृीब ककोलीजटयोः स्त्रियाम्' इति मेदिनी । अशेः ॥ “अथाक्षमिन्द्रिये । ना घृताङ्गे कर्षचके व्यवहारे कलिदुमे' इत्यमरः । “अक्षो ज्ञाना त्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्वे विभीतकतरावपि । चक्रे कर्षों पुमान् कृीबन्तु त्थसौवर्चलेन्द्रिये' इति मेदिनी । स्नुत्राश्च ॥ 'ऋक्षः पर्वतभेदे स्याद्रल्लूके शोणके पुमान् । कृतवेधनेऽन्यलिङ्ग नक्षत्रे च नपुसकम्’ इति मेदिनी । ऋषेजतौ ॥ नियमार्थमिद सूत्र ऋषेर्जातावेवेति । तेनान्येभ्यः केवलयौगिकत्वेऽपि प्रत्ययः । उन्दिगुधि ॥ 'गुत्सः स्यात्स्तबके स्तम्बे हारभिद्रन्थिपर्णयोः' इति मेदिनी । गुच्छश्च । “गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूप कोशात् । ' स्यादुच्छः स्तबके स्तम्बे हारभेदकलापयोः’ इति च वर्गद्वितीयान्तमेदिनीकोशाच । गृधेश्चत्र्वेन सिद्धे भष्भावनिवृत्तये दकारविधि । “पक्षेो मासार्द्धके पार्श्व ग्रहे साध्यविरोधयोः । केशादेः परतो बृन्दे बले सखिसहाययोः । चुलीरन्धे परत्रे च राजकुञ्जरपार्श्वयोः' इति विश्वमेदिन्यौ । अशेस्सर ॥ अक्षरमिति ॥ ' अक्षर स्यादपवर्गे परमब्रह्मपर्णयोः’ इति