पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३०७
बालमनोरमा ।

२५७४ । हनस्तोऽचिण्णलोः । (७-३-३२)

हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता | ततश्चाड्द्वित्वयोर्दोषः । किञ्च कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् 'प्रकृतिवच्च' इति चकारो भिन्नक्रम: । कारकं च । चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च


हनस्तोऽचिण्णलोः ॥ हन इति षष्ठी । त इत्यत्र अकार उच्चारणार्थ । तदाह । हन्तेस्तकार इति ॥ अन्तादेश इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ॥ 'अचो ञ्णिति' इत्यतस्तदनुवृत्तेरिति भावः । तथाच हनो नकारस्य तत्वे 'हो हन्ते' इति कुत्वेन हस्य घकारे घातीति ण्यन्त फलितम् । ततो लटि घातयति इति रूप स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृतौ कxमिति च स्थितम् । 'आख्यानात् कृत’ इति वार्तिकस्थ प्रकृतिवच्च कारकमित्यश शxत्तरत्वेन योजयिष्यन् शङ्कामवतारयति । नन्विति । कंसविशिष्टस्येति ॥ कंसवधशब्दस्यैवेत्यर्थ ।तस्मादेव णिचो बिधानादिति भाव. । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह । ततश्चेति ॥ कंसवधशब्दस्याङ्गत्वात् अड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् । कंस इत्यस्य द्विर्वचन स्यात् । इष्यते तु कंसमजीघतत् इत्येव हनधातोरेवोभयमित्यर्थः । किञ्चेति ॥ कंसङ्घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह । धातोरिति ॥ धातोर्हन् इत्यादि तत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वार्त्रघ्नमित्यत्र 'हनस्तोऽचिण्णलोः' इति तत्वन्न भवतीति 'हनस्तोऽचिण्णलोः' इति सूत्रे भाष्ये स्पष्टम् । तथाच प्रकृते कंसं घातयतीत्यत्र 'हो हन्ते' इति कुत्वं 'हनस्तोऽचिण्णलो' इति तत्वञ्च न स्याताम् । अत्र णिच प्रातिपदिकाद्विहितत्वेन धातेर्विहितत्वाभावादित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपो बोध्यः | तत्परिहारस्यापि वक्ष्यमाणत्वात् । तामिमा शङ्कामर्धङ्गीकारेण परिहरति । सत्यमिति ॥ कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते दोषापादनन्तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति ॥ 'आख्यानात् कृत' इति वार्तिके प्रकृतिवच्चेति चकार भिन्नक्रमः । प्रकृतिवदित्यनन्तरपठित चकारः कारकमित्यस्मादूर्ध्व निवेशनीय इति भावः । तदेवाभिनीय दर्शयति । कारकञ्चेति ॥ चकारोऽयमनुक्तसङ्गहार्थ इत्याह । चात्कार्यमिति ॥ समुच्चीयते इति शष .। तथाच कारकङ्कार्यञ्च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देत हेतुमण्णिच. प्रकृतिर्विवक्षिता । व्याख्यानात् ।प्रकृताविव प्रकृतिवत् सप्तम्यन्ताद्वति. । तदाह । प्रकृतेर्हन्यादेर्हेतुमण्णाविति ॥ प्रयुज्यमाने सतीति शषः |कारकमित्यस्य विवरणन्द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः तं प्रेरयतीत्यर्थे कंसङ्घातयति । कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यत् द्वितीयादिकारकविभक्तयन्त यच्च कार्यङ्कुत्वतत्वाड्द्वित्वादि तत्सर्व आख्यानात् कृत इत्यस्योदाहरणे कंसवधमाचष्टे कंसङ्घातयति कंसवधमाचष्ट कंसमजी-