सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
[चुरादि
सिद्धान्तकौमुदीसहिता

सम्बन्धश्च । वर्षयते । मद १७०६ तृप्तियोगे । मादयते । दिवु १७०७ परिकूजने । गृ १७०८ विज्ञाने । गारयते । विद १७०९ चेतनाख्यानविवासेषु । वेदयते |

सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।

विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ।।

मान १७१० स्तम्भे । मानयते । यु १७११ जुगुप्सायाम् । यावयते । कुस्म १७१२ नाम्नो वा (ग सू १९९) 'कुस्म' इति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा 'कुस्म' इति प्रातिपदिकम् । ततो धात्वर्थे णिच् ।इत्याकुस्मीया: ।

चर्च १७१३ अद्ध्ययने । बुक्क १७१४ भाषणे । शब्द १७१५ उपसर्गादाविष्कारे च । चाद्भाषणे । प्रतिशब्दयति ।प्रतिश्रुतमाविष्करोतीत्यर्थः । 'अनुपसर्गाच्च' । 'आविष्कारे' इत्येव । शब्दयति । कण १७१६ निमीलने । काणयति | 'णौ चङ्युपधाया ह्रस्वः' (सू १३२४) । 'काण्यादीनां वा '


केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे विकरणभेद सङ्गृण्हाति । सत्तायां विद्यते इत्यादिश्लोकेन ॥ 'कुस्म नाम्नो वा' गणसूत्रम् । कुस्मेति पृथक्पद अविभक्तिकम् । तदाह । कुस्म इति धातुरिति ॥ कुत्सितस्मयने वर्तते इति शेषपूरण, व्याख्यानादिति भाव. । कुस्मयते इति ॥ आकुस्मीयत्वादकर्तृगेऽपि फले आत्मनेपदम् ।आकुस्मादात्मनेपदिन इत्यत्र आडभिविधावित्याश्रयणादिति भाव । अचुकुस्मतेति ॥ उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाभावान्न सन्वत्त्वमिति भाव । नाम्नो वेत्यश व्याचष्टे । अथवेति ॥ नाम प्रातिपदिक तस्माद्वा णिज्भवतीत्यर्थ । तच्च प्रातिपदिकङ्कुस्मशब्दात्मकमेव गृह्यते प्रत्यासक्तया । तथाच कुस्मेति धातो कुस्मेति प्रातिपदिकाद्वा णिजिति फलितम् । तत्र धातोः णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकात् णिचि विशेषमाह । ततः इति ॥ तस्मात् प्रातिपदिकादित्यर्थ. । धात्वर्थे इति ॥ करोतीत्यर्थे आचष्टे इत्यर्थे वेत्यर्थः । नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकात् णिच् सिद्ध इति वाच्यम् । 'आकुस्मादात्मनेपदिन.' इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः । शब्द उपसर्गादिति ॥ उपसर्गात्पर. शब्दधातु आविष्कारे वर्तते इत्यर्थः । अनुपसर्गाच्चेति ॥ अनुपसर्गात्परोऽपि शब्दधातु णिच लभते इत्यर्थः । आविष्कारे इत्यस्यैवानुवृत्त्यर्थ पृथगुक्ति: । शब्द आविष्कारे चेत्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् । तदाह । आविष्कारे इत्येवेति । काण्यादीनामिति ॥ इद वार्तिक 'भ्राजभासभाष' इति सूत्रे भाष्ये