सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
[तुदादि
सिद्धान्तकौमुदीसहिता


२५३६ । विज इट् । (१-२-२)

विजे: पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते । ओ लजी १२९१ ओ लस्जी १२९२ व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे |

अथ परस्मैपदिनः । ओ व्रश्चू १२९३ छेदने । 'ग्रहिज्या--' (सू २४१२) वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्विथ-वव्रष्ठ । 'लिट्यभ्यासस्य -' (सू २४०८) इति सम्प्रसारणम् रेफस्य ऋकार । 'उरत्' (सू २२४४) । तस्य च 'अचः परस्मिन्-' (सू ५०) इति स्थानिवद्भावात् 'न सम्प्रसारणे-' (सू ३६३) इति वस्योत्वं न । व्रश्चिता-व्रष्टा । व्रश्चिष्यति-व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत्-अव्राक्षीत् |


उद्विजितेत्यादौ लघूपधगुणे प्राप्ते । विज इट् ॥ 'गाड्कुटादिभ्यः' इत्यतः डिदित्यनुवर्तते । तदाह । विजेः परः इत्यादि ॥ उद्विजिता । उद्विजिषीष्ट । उदविजिष्ट। व्रश्च्धातुरूदित्त्वाद्वेट् । ग्रहिज्येति ॥ लटि व्रश्च् अ ति इति स्थिते शस्यापित्त्वेन डित्त्वात् 'ग्रहिज्या' इति रेफस्य सम्प्रसारणमृकारः पूर्वरूपञ्चेति भाव. । तदाह । वृश्चतीति ॥ वृश्चतः । वृश्चन्तीत्यादि । वव्रश्चेति ॥ णलि रूपमिदम् । थलि च प्रक्रिया अनुपद वक्ष्यते। अतुसादौ सयोगात्परत्वेन कित्त्वाभावात् 'ग्रहिज्या' इति न सम्प्रसारणम् । तदाह । वव्रश्चतुरिति ॥ ऊदित्त्वात्थलादौ वेट् । तदाह । वव्रश्चिथ-वव्रष्ठेति ॥ धातुपाठे व्रश्चू इत्यत्र व्रस् च् इति स्थिते सस्य श्चुत्वेन शकारनिर्देशः । तथाच वव्रश्च् थ इति स्थिते श्चुत्वस्यासिद्धत्वात् 'स्कोः' इति सकारलोपे, चस्य 'व्रश्च' इति षत्वे ष्टुत्वेन थस्य ठत्वे वव्रष्ठेति रूपम् । वव्रश्चिव । ननु णलि थलि च अकिति द्वित्वे कृते 'लिट्यभ्यासस्य’ इत्यभ्यासावयवयोर्वकाररेफयोर्द्वयोरपि सम्प्रसारणं स्यात् । नच 'न सम्प्रसारणे सम्प्रसारणम्' इति वकारस्य सम्प्रसारणनिषेधः शङ्क्य: । पूर्व वकारस्य सम्प्रसारणसम्भवादित्यत आह । लिट्यभ्यासेति ॥ 'न सम्प्रसारणे' इति निषेधादेव ज्ञापकात् प्रथम रेफस्य ॠकारस्सम्प्रसारणमित्यर्थः | तस्य सम्प्रसारणसम्पन्नस्य ॠकारस्य अकारविधिं स्मारयति । उरदिति ॥ ननु ॠकारस्य अकारे कृते वकारस्य सम्प्रसारण स्यात् । सम्प्रसारणपरकत्वविरहेण 'न सम्प्रसारणे' इति निषेधाप्रवृत्तेरित्यत आह । तस्य चेति ॥ अकारस्येत्यर्थः । नच उरदत्त्वस्य परनिमित्तकत्वाश्रवणात् कथ स्थानिवत्त्वमिति वाच्यम् । आपादपरिसमाप्तेरङ्गाधिकारः इत्यभ्युपगम्य अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वाभ्युपगमात् । “लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः” इति न्यायस्तु 'न सम्प्रसारणे' इति निषेधादेव न स्थानिभेदे प्रवर्तते इति ज्ञायते । अत एव सुद्ध्युपास्य इत्यादौ धकारस्य द्वित्वे कृते पूर्व धकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तान्तावत् । आशीर्लिड्याह । वृश्च्यादिति ॥ कित्त्वात् सम्प्रसारणमिति भावः । अव्रश्चीदिति ॥ ऊदित्त्वादिट्पक्षे 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः । इडभावं मत्वा आह ।