सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

२७२९ । उपाद्यमः स्वकरणे । (१-३-५६)

स्वकरणं स्वीकारः । भार्यामुपयच्छते ।

२७३० । विभाषोपयमने । (१-२-१६)

यमः सिच्किद्वा स्याद्ववाहे । रामः सातामुपायत-उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ।

२७३१ । ज्ञाश्रुस्मृदृशां सनः । (१-३-५७)

सन्नन्तानामेषां प्राग्वत्। धर्म जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ।

२७३२ । नानोर्ज्ञः । (१-३-५८)


न त्वव्यवहितत्वमिति भाव । तेनेति ॥ षष्ठ्याश्रयणेनेत्यर्थ । सूत्रद्वयमिति ॥ 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्थस्य षष्ठ्यन्तस्यैव 'दाणश्च' इति सूत्रेऽप्यनुवृत्तेरिति भाव । उपाद्यमः ॥ आत्मनेपदमिति शेषः । ननु स्व वस्त्रमुत्पादयतीत्यर्थे वस्त्रमुपयच्छतीत्यत्राप्यात्मनेपद स्यादित्यत आह । स्वकरणं स्वीकारः इति ॥ अस्वस्य सत स्वत्वेन परिग्रह स्वकरणशब्देन विवक्षित इत्यर्थ । च्विप्रत्ययस्तु वैकल्पिक । 'समर्थाना प्रथमाद्वा' इत्युक्तेरिति भाष्ये स्पष्टम् । भार्यामुपयच्छते इति ॥ अन्यदीयाङ्कन्याम्भार्यात्वेन परिगृह्णातीत्यर्थः । विभाषोपयमने ॥ 'यमो गन्धने' इत्यतो यम इति 'हनस्सिच्' इत्यतस्सिजिति 'असयोगात्' इत्यत किदिति चानुवर्तते । तदाह । यमः सिच्किद्वा स्याद्विवाहे इति ॥ उपयमशब्दो विवाहे वर्तते इति भाव । रामः सीतामुपायतेति ॥ भार्यात्वेन स्वीकृतवानित्यर्थः । सिचः कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलोपे 'ह्रस्वादङ्गात्' इति सिचो लोपः । उदवोढेति ॥ भार्यात्वेन परिग्रहः उद्वाहः । गन्धनाङ्गे उपयमे त्विति ॥ हिसापूर्वके विवाहे त्वित्यर्थः । राक्षसविवाहे त्विति यावत् । 'हत्वा भित्वा च शीर्षाणि रुदती रुदतो हरेत् । स राक्षसो विवाहः' इति स्मृते. । नित्यङ्कित्त्वमिति ॥ 'यमोऽगन्धने' इति पूर्वसूत्रेणेति शेष । यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात् तर्हि एषा प्राप्तविभाषा स्यात् । ततश्च 'नवेति विभाषा' इत्यत्र भाष्ये अप्राप्तविभाषासु अस्या परिगणन विरुध्द्येत । अत पूर्वविप्रतिषेध आश्रयणीय इति भाव । ज्ञाश्रु ॥ प्राग्वदिति ॥ आत्मनेपदमित्यर्थः । यद्यपि 'अपह्नवे ज्ञः अकर्मकाच्च, सम्प्रतिभ्यामनाध्द्याने' इति सूत्रे 'अर्तिश्रुदृशिभ्यश्च' इति वार्तिकेन च ज्ञादिभ्यः आत्मनेपदे कृते 'पूर्ववत्सन' इत्यात्मनेपद सिद्धम् । तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थ ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति । धर्मं जिज्ञासते इति ॥ ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ॥ 'अज्झनगमां सनि' इति दीर्घ . । 'इको झल्' इति सनकित्वम् । 'श्र्युकः किति' इति इण्णिषेध । सुस्मूर्षते इति ॥ स्मृधातोस्सनि 'अज्झन' इति दीर्घे 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । नानोर्ज्ञः ॥ अनुपू-