पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३२१
बालमनोरमा ।

स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । 'विस्माययन्' इत्येव पाठ इति साम्प्रदायिकाः । यद्वा मनुष्यवाक्प्रयोज्यकर्त्री विस्मापयते । तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ 'शता' इति व्याख्येयम् |

२५९७ । स्फायो वः । (७-३-४१)

णौ । स्फावयति |

२५९८ । शदेरगतौ तः । (७-३-४२)

शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु गा: शादयति गोविन्दः । गमयतीत्यर्थः ।

२५९९ । रुहः पोऽन्यतरस्याम् । (७-३-४३)

णौ । रोपयति-रोहयति ।

२६०० । क्रीङ्जीनां णौ । (६-१-४८)

एषामेच आत्त्वं स्याण्णौ । क्रापयति । जापयति । अद्ध्यापयति ।


युज्यते इत्यर्धाङ्गीकारेण परिहरति । सत्यमिति ॥ विस्माययन्नित्येवेति ॥ णौ आयादेशे स्मायि इत्यस्माल्लटश्शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव काळिदासो महाकविः प्रायुङ्क्त । विस्मापयन्निति पकारपाठस्तु लेखकप्रमादकृत इति भावः । यद्वेति ॥ राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति । विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककर्त्री । राजा तु प्रयोज्यकर्तेति स्थिति. । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूxकत्वादात्त्वे पुक् । मूले प्रयोज्यकर्त्रीत्येव पाठ । प्रयोजककर्त्रीत्यर्थ । प्रयोज्यः कर्ता यस्याः सा प्रयोज्यकर्त्री इति बहुव्रीह्याश्रयणात् । प्रयोजककर्त्रीत्येव पाठः सुगमः । ता विस्मापयन्ती प्रयोजककर्त्री मनुष्यवाच प्रयोजयति सिंहः विस्मापयन् । स्मापि इति ण्यन्तात् णौ प्रथमणेर्लोपे स्मापि इत्यस्मात् शतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यभिप्रेत्य आह । तया सिंहः इति ॥ प्रयोजककर्तरि तृतीया । आत्मनेपद भीस्मीप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः । स्फायो वः ॥ णाविति शेषपूरणम् । 'अर्तिह्री' इत्यतस्तदनुवृत्तेरिति भाव.। शादेरगतौ तः ॥ 'अर्तिह्री' इत्यतो णावित्यनुवृत्ति मत्वा आह । शदेर्णाविति । तोऽन्तादेशः इति ॥ तकार इत्यर्थः । अकार उच्चारणार्थः । रुहः पो ॥ णाविति शेषपूरणम् । क्रीङ्जानां णौ ॥ 'डु क्रीञ् द्रव्यविनिमये, इड् अध्द्ययने, जि जये' एषान्द्वन्द्वः । एच आत्त्वमिति ॥ 'आदेच उपदेशे' इत्यतस्तदनुवृत्तेरिति भाव. । क्रापयति । जापयतीति ॥ आत्त्वे पुक् । लुडि अचिक्रपत् । अजीजपत् । अद्ध्यापयतीति ॥ इड आत्त्वे पुकि रूपम् । अधि इ इ अ त् इति स्थिते 41