स्रीप्राया चतुरङ्का च शृङ्गारो रसलक्षणः ।
देवी तत्र कुलज्येष्ठा प्रगल्भा नृपवंशजा ॥ २० ॥
तदधीनतया कृच्छ्रादन्यस्या नेतृसङ्गमः ।
वृत्तिस्तु कैशिकी तत्र पूर्वोक्ताङ्गसमन्विता ॥ २१ ॥
सन्धिसन्ध्यङ्गरचना यथालाभं विधीयते ।
सट्ट्कम्
प्रायेण नाटिकाप्रायं चतुर्यवनिकान्तरम् ॥ २२ ।।
विष्कम्भकादिभिस्सर्वैर्विहीनं पञ्चसूचकैः ।
सट्टकं स्त्रीजनाकीर्णमेकभाषामयं भवेत् ॥ २३ ॥
भाणः
धूर्तानां चरितं भाणं ख्यातवर्तनसंश्रयम् ।
तत्र पात्रं विटस्त्वेको निपुणश्शास्त्रकोविदः ॥ २४ ॥
उक्तिप्रत्युक्तिविधयः सम्यगाकाशभाषितैः ।
विधेयाः कल्पनीयानि लास्याङ्गानि दशापि च ॥ २५ ॥
श्रृङ्गारवीरौ संसूच्यौ रसौ सौभाग्यसंस्तवैः ।
मुखनिर्वहणे सन्धी तदङ्गैरपि भूषितः ॥ २६ ॥
एकाः स्थापनायुक्तो भारत्या स तु संस्कृतः ।
ईहामृगः
ईहामृगोऽपि विज्ञेयश्चतुरङ्कस्त्रिसन्धिकः ॥ २७ ॥
दिव्यावनियताका नायकप्रतिनायकौ ।
धीरोद्धतौ ख्याxxणै यदृच्छासङ्गतौ मिथः ॥ २८ ॥
पृष्ठम्:साहित्यसारः.pdf/66
पुटमेतत् सुपुष्टितम्
५७
षष्ठः प्रकाश: