नीलवर्णो हि बीभत्सो महाकालोऽधिदैवतम् ।
रौद्रः कपोतवर्णस्स्यात् रुद्रस्तस्याधिदैवतम् ॥ १०८ ॥
सितो हास्यः स्मृतस्सद्भिरीशः प्रथम(मथ)दैवतम् ।
पीतवर्णोऽद्भुतः प्रोक्तस्तस्याधीशः पितामहः ॥ १०९ ।
भयानकः कृष्णरूपस्स हि कालाधिदैवतः ।
हरिद्वर्णस्तु करुणः यमस्तस्याधिदैवतम् ॥ ११० ।।
अनेनैव क्रमेणासौ ज्ञातव्यो रसविस्तरः ।
रसस्य वृत्ति:
शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः ॥ १११ ।
रसे रौद्रे सबीभत्सो वृतिस्सर्वत्र भारती ।
यत्र बीजस्य संहारो यत्रार्थः पर्यवस्यति ॥ ११२ ॥
सर्वेषां यत्र निष्कामस्सोऽङ्क इत्यवगम्यताम् ।
धर्मादयः
धर्मः स्वधर्मानुष्ठानं धर्माणां या विधेयता ॥ ११३ ॥
प्रजानां पालनेनैव षड्भागग्रहणं धनम् ।
समानकुलधर्माढ्यगृहिण्यां गृहमेधिनः ।। ११४ ॥
कृतकृत्यस्य संभोगः काम इत्यभिधीयते ।
निश्शेषस्सारसंसारविचारचतुरात्मनः ॥ ११५ ।।
मोक्षः स्याद् ज्ञानसंपत्त्या परमानन्दसंगतिः ।
संमिश्राः केवला वा स्युरेतत्सर्वत्र नाटके ॥ ११६ ।।
समाप्तौ सर्वसन्तोषो ह्युदर्कः प्रीतिरुच्यते ।
पृष्ठम्:साहित्यसारः.pdf/62
पुटमेतत् सुपुष्टितम्
५३
पञ्चमः प्रकाशः