शोकश्च कश्चिदप्यन्यो नेहास्माभिस्स कथ्यते ।
एतेषां काव्यबन्धेन स्वशब्दैरनिवेदितः ॥ ६९ ॥
स बन्धः कल्पनीयो हि भाव्यभावकसंज्ञितः ।
शश्वत्सहृदयग्रन्थेः परन्निकृ(र्वृ)त्तचेतसः ॥ ७० ॥
काव्यार्थभावनास्वादो नर्तकस्यापि वर्तताम् ।
स्वादुकाव्यार्थसंभेदादात्मन्यानन्दसंभवः ॥ ७१ ॥
विकारविस्तरक्षोभविक्षोभैस्स चतुर्विधः ।
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ।। ७२ ।।
हास्याद्भुतभयोत्कर्षकरुणानन्द एव च । ।
रति:
हृद्यदेशकलावेषकालभाषाविभूषितः ॥ ७३ ॥
यूनोरन्योन्यसंसक्तचेतसोस्सदृशोदयः ।
निर्भरो यः प्रमोदः स्यात् स एव हि रतिस्स्मृतः ॥ ७४ ॥
सैव लावण्यपीयूषभूषितैरङ्गचेष्टितैः ।
प्रकृष्यमाणश्श्रृङ्गारस्सरसैरिह कथ्यते ॥ ७५ ॥
भावा ह्येकोनपञ्चाशदेतस्य पिरपोषकाः ।
आलस्यमरणोग्रत्वजुगुप्सास्तु विरोधिनः ॥ ७६ ॥
संभोगलक्षणम्
असंभवोऽभियोगश्च संभोगश्रेति स त्रिधा ।
असंभवाऽनुरागः स्याद्यूनोरासक्तचित्तयोः ॥ ७७ ॥
सङ्गमाभावसुभगः पराधीनतया मिथः ।
पृष्ठम्:साहित्यसारः.pdf/58
पुटमेतत् सुपुष्टितम्
४९
पञ्चमः प्रकाशः