नाटकसन्धय:
अङ्कस्यान्ते समुत्पत्तिरङ्कस्यार्था विशेषतः ।
अङ्कावतारः कथितः सर्वनाटककोविदैः ॥ १ ॥
विष्कम्भकस्तु संक्षेपादतीतागतवस्तुनोः ।
सूचको मध्यमकृतश्शुद्धस्सद्भिरुदाहृतः ॥ २ ॥
नीचमध्यमपात्राभ्यां कृतस्सङ्कीर्णको भवेत् ।
नैपथ्ये पात्रविहिता सूचिकार्थस्य चूलेिका ॥ ३ ॥
नाट्यस्त्रियः
उदारा चतुरा प्राज्ञा मृद्वी रूपान्विता सती ।
नायिका कथ्यते सद्भिर्नाटके नायकोचिता ॥ ४ ॥
स्वकीयाऽन्या समानेति सा पुनस्त्रिविधा भवेत् ।
स्वकीया विधिवन्नेत्रा संप्राप्तकरपीडना ।। ५ ।।
मुग्धा मध्या प्रगल्भेति साऽपि त्रेधा निगद्यते ।
मुग्धा स्वल्पक्यःक्रोधा मृद्वी संमुग्धभाषिणी ॥ ६ ॥
अज्ञातसुरतोल्लासा किञ्चिदुद्यन्मनोभना ।
न कोऽपि भेदो नाट्यादौ सर्वत्रैकविधैव सा ।। ७ ।
धीरा मध्या त्वधीरेति मध्यमा त्रिविधा भवेत् ।
धीरा मध्या सललितं पश्यति स्मेरया दृशा ॥ ८ ॥
कथाभिस्सोपहासाभिर्दुनोति दयितं क्रुधा ।
स्वयं मध्या समुद्भिद्यद्यौवनानन्दशालिनी ॥९॥