पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


कृतमिति व्यवहारस्त या प्रकृतेऽपि । एवं सर्वत्रत्विक प्राप्तो प्रधानस्य द्रव्योत्सर्गस्यान्येन कर्त्तुमशक्यत्वद्ययजमान एव कुर्यादिति सिद्धा- न्तितम् । “प्रधानं स्वामी फलसंयोगा’ दिति कात्यायनसूत्रेऽपि तथैव व्युत्पादितम् । तच्च ‘वषट्कृतेऽध्वर्युर्जुहोती’ति श्रुत्या प्रधानस्य प्रक्षेपस्वाध्वर्युकतैकत्ववोधनाद्विरुद्ध्येतेति चेन्न ।

 ‘वषट्कृतेऽध्वर्युर्जुहोती’ति श्रुत्या प्रधानस्याध्वर्युकर्तृकत्वे वो- धितेऽपि यावत्स्वामी न परस्मै प्रयच्छति तावदस्वामिकं मह्यन्दत्त- मिति परो न स्वीकुरुते, स्वीकाराभावाच्च तदस्वित्वं नोत्पद्यते इत्याशङ्का स्यात्तद्वारणाय सूत्राणामपेक्षितस्वाम्यनुमतिपरत्वादनुम- स्यतिरिक्त कल्पनेऽपीछाविशेषस्यैव प्रधानत्वकल्पनेन पूर्वोक्तयुक्या- तत्र शक्तिग्रहाभावप्रसङ्गात् । प्रधानद्रव्यव्यापत्तौ साङ्गावृत्ति'रिविं स्त्रविरोधाञ्च ।

 तथाहि-प्रधानं फलं तत्साधनं कर्म प्रधानपदेन विवक्षित साध्यसाधनयोरभेदात्तस्य साधनं यद् द्रव्यं पुरोडाशाज्यसान्नाय्य- चर्वामिक्षाधानामन्थकरम्भसक्त्वादिलक्षणं तान्नाशे दुष्टत्वे,वा साङ्गा- वृत्तिरिति तत्तत्प्रक्षेपस्यैव दुव्यसाध्यत्वान्न तु तादृशसङ्कल्पस्य तद्विनापि सम्भवात् ।

 किंञ्चानुमत्यतिरिक्तकल्पनेऽपि उक्तयुक्त्या यज्यतिरिक्त एव स्यात् । सच त्यागरूप उत्सर्गस्तहिँ अग्निमुद्दिश्येदमुत्सृजामि इति स्यात् । परस्वत्वापत्तिश्चेदग्नेरिदमस्त्विति स्यात् । स्वस्वामिभावस्य षष्ठीं विना ऽसम्भवात् । दानं चेत्तञ्च सम्प्रदानसाध्यं तत्रेदमग्नये- इत्येव स्यात् । परस्वत्वापत्तेः स्वत्वनिवृत्तिपूर्वकत्वेनाथदेव न- ममेति सिद्धेः यागस्य दानवेऽपि नोदकपूर्वकत्वम् । तदुक्तमा- पस्तम्बैन ‘सर्वाण्युदकपूर्वाणि दानानि यथाश्रुति तु विहारे' इति ।

  • हारोऽषदानु प्रक्षेपः । अन्वाहार्यदानादि इत्यपरे। 'दानवाचनान्वा-