पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
व्यक्ताव्यक्तयोः साधर्म्यनिरूपणम् ।


 अत एव "सामान्यम्" । साधारणम्, घटादवत् । अनकैः पुरुषैगृहीनमित्यर्थः । विज्ञानाकारत्वे तु असा- धारण्याद्विज्ञानानां वृत्तिरूपाणां, ते ऽप्यसाधारणाः स्युः, [विज्ञानं परेण न गृह्यने परवुद्धेरप्रत्यक्षत्वादित्याभप्रा- यः ][१] तथा च नर्तकीभ्रूलताभङ्गे एकस्मिन् बहूनां प्रतिसन्धानं युक्तम् । अन्यथा तन्न स्यादिति भावः ॥

भावात् । अहमियालयविज्ञानसन्ताने सत्यपि कदाचिद्भवन्तो नी- लादिप्रत्ययास्तद्व्यतिरिक्तहेतुका भवितुमर्हंति,ये यस्मिन्सत्यपि कादा- चित्कास्ते तदतिरिक्त हेतुसापेक्षा यथा एकस्मिनकुर्वत्यपि विवक्षां जिगामिषां वा (सत्यप्यसति) विवक्षुजिगमिषुपुरुषान्तरसन्तानां- श्रितवचनगमनविषयप्रतिभासरूपप्रत्ययाः (?) कदाचित्कास्तद्व्याति- रिक्तपुरुषान्तरसन्तानसापेक्षास्तथा विवादाध्यासिनीलपीतादिप्रत्य- याः परिशेषादालयविज्ञानातिरिक्तवाह्यार्थहेतुसापेक्षा इत्यनुमान- विरोधश्च । अनादिवासनयाऽपि नीलाद्याकाराणां कादाचि- त्कत्वं न सम्भवति । सर्वस्य क्षणिकत्वेन स्वस्य परस्य वा संस्कार- स्यान्यकालेऽसत्वात् । न च शक्तिभेदात्केषांचिदेव नीलाकारता नान्येषामिति वाच्यम् । तादृशशक्तिमतोऽग्रे जायमानस्यापि तादृशत्वावश्यकत्वे विजातीयप्रवाहानुदयप्रसङ्गात् ।

 साधर्म्यान्तरस्यापि तन्मतखण्डनपरत्वं दर्शयति । अत एवे- ति । यतो विज्ञानभिन्नस्यैव विषयत्वमत एवेत्यर्थः । साधारण- मिति । सर्व पुरुषसाधारणम् । आलयविज्ञानरूपपुरुषभेदेऽप्यभिन्न- मिति यावत् । विपक्षपर्यवसायितर्कमाह । विज्ञानाकारत्वइति

 उपसंहरति । तथा चेति । साधारणत्वे इत्यर्थः । साधर्म्या-



  १ [ ] एतदन्तर्गतः पाठः पु० नास्ति ।