पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
सटीकासाङ्ख्यतत्त्वकौमुद्याम्।



यो हि शब्दो यत्र वृ्द्धैः प्रयुज्यते, सो ऽसति वृ त्त्यन्तरे तस्य वाचकः, यथा गोशब्दो गोत्वस्य, प्रयु- ज्यते चैवं गवयशब्दो गोसदृशे, इति तस्यैव वाचक:,




प्रयोगस्तु-“गवय़पदं गोसदृशस्य वाचकं गवयत्वविशिष्टवाचकं वृत्त्यन्तरे प्रयुज्यते स तस्य वाचको यथा गोशब्दो गोजातीयस्य, प्रयुज्यते चायं गोसदृशे"। न च ‘द्वितीयसाध्ये वृत्त्यन्तरं विना प्रयोगः शक्तिज्ञानं विना ज्ञातुमशक्य इति विशेषणासिद्धिः,"गोसदृशो ग वयः इत्याप्त्तावाक्यात्सादृश्यविशिष्टे गवयशब्दवाच्यत्वाव्वगमात्' इति वाच्यम् । आचरकस्थं बिल्वादिपदवाच्यं, चत्वरस्थं गोपदवाच्य- मित्यादिवत्सादृश्यस्पोपाधित्वेन गवयत्वजातेरखण्डत्वेन शक्य- तावच्छेदकत्वात् । अप्रतीतसादृश्यानामपि वनेचराणां बहुशः प्र मोगदर्शनाञ्च ।

 अन्ये तु-सामान्यतो गवयपदवाच्यं किञ्चिदस्तीति जानन् विशिष्य परिचिन्वानः कीदृशो गवयपदावाच्यः ? इति किञ्चित्पृच्छति । तेन च गोसदृशो गवयपदवाच्य इति उक्तः सन् विपिनमनुसरन् यदा गोसदृशपिण्डमनुभवति; तद।ऽयमतिदेशवाक्यार्थं स्मरन् परिच्छिन- त्ति-अयं गवय इति, सेयमुपमितिः । अत्र-‘अयम्-”इति शब्दो गवयसमान्यपरो न तु पुरोवृत्तिव्यक्तिपरः तथा सति अन्यत्र शक्तिग्रहाभावेऽन्यत्रशब्दबोधेऽपूर्वव्यक्तिभनानापत्तेः । तथा च गवयो गवयपदवाच्य इत्येवोपमितिः सा नानुमितिः, व्याप्तिज्ञान- भावेप्युत्पत्तेः । नापि शाब्दम् । गवयत्वविशिष्टोपस्थापकपदाभावा दित्याहुः । तत्र । आप्तवाक्यद्यो गोसदृशः स गवयपदवा- च्य इति जायमानस्य प्रत्ययस्य व्याप्तिविषयकत्वात् । गोसदृश- व्यक्त्यज्ञानेपि यथा गोसदृशो गोसदृशपदवाच्यस्तथा सामान्यतो गवयो गवयपदवाच्य इति प्रत्ययसम्भवेन तत्समानाकारोपमिते-