पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
429
व्यवहारकाण्डः

'श्राद्धं मातामहानां तु अवश्यं धनहारिणा' ।

इत्यादीनि; तानि षोडशश्राद्धविषयाणीति ध्येयम् ।

श्राद्धं मातामहानां तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा ॥

इति । सोमेश्वरभारुचिमतावलम्बनेन अयमस्यार्थः-- अर्थशब्देन प्रयोजनमुद्देश्यं-- ऋणमिति यावत् । तस्य निष्कृत्यै-- आनृण्याय बहुषूपप्लवमानेषु दौहित्रेषु एक एव शक्तो धनहारी धनं हृत्वा आहृतद्रव्येण षोडशश्राद्धं नवश्राद्धानि पन्थापरिव्ययणं कुर्यात् । पुत्रेष्वसन्निहितेषु अविद्यमानेषु पत्न्यामविद्यमानायां समनन्तरकर्तृषु विद्यमानेषु इतरस्य व्यवहितकर्तृरधिकारनिषेधात् । तथा च विष्णुः--

 'सति कर्तर्यन्यस्य कर्तृत्वं समनन्तरकर्तर्यनन्तरकर्तृत्वं न स्मृतम्'

इति ।

 श्राद्ध इति शेषः । संस्कारकर्मणीति केचित् । तथा च व्यासः--

पितॄन्मातामहांश्चैव द्विजः श्राद्धेन तर्पयेत ।
अनृणस्स्यात्पितॄणां तु यज्ञलोकं समृच्छति ॥

इति । अत्रानृण्यं 'त्रिभिऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति प्रतीतं दौहित्रस्यापि पौत्रवन्मातामहप्रजारूपत्वेन सिद्धं नान्यथा । दुहितृस्त्वग्निविद्यासाध्यकर्मण्यनधिकारात् दौहित्रम्यैव तत्राधिकार इति दुहितृद्वारा दौहित्रस्य सम्पादनादानृण्यं मातामहस्य । अत एव पौत्राद्दौहित्रस्य व्यवधानं । अत एव पौत्रवद्दौहित्रस्य साक्षादप्रतिबन्धेन दायस्वीकारार्हता नास्ति; किन्तु दुहितृद्वारा । अतो दौहित्रोपी