पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
422
श्रीसरस्वतीविलासे

तदभावे मातृबन्धुषु श्रोत्रियान्तेषु सङ्क्रम इति । एवं स्थिते पत्न्यनन्तरं दुहितृगामि धनं तद्दुहितॄणां सापत्यानपत्यतामनपेक्ष्यैव संक्रामति । तथा च 'दुहितर' इति वचनं सार्थकं भवति । अत एव भ्रातर इति बहुवचनमपि सापत्यानपत्यभ्रातृत्वविवेकमनपेक्ष्यैव प्रयुक्तं । अत एव पत्नीत्येकवचनं । सापत्यानपत्यपत्नीद्वयसन्निपाते सापत्यायाः स्थावरं नानपत्यायाः । अत एव तत्सुत इत्यत्रापि भ्रातृसुतानां सापत्यानपत्यानां सन्निपाते सापत्यस्यैव रिक्थग्रहणं । एवमुत्तरत्रापि । सब्रह्मचारिणां इति बहुवचनं तु एकवासिनामिव अनेकवासिनामप्यादरार्थं । तच्च दुहितृस्वाम्यतिरिक्तं सप्रतिबन्धमपि दौहित्रसद्भावे दुहितृगामित्वावस्थायां अप्रतिबन्धदायतामापद्यते । चकारेणानुक्तसमुच्चयार्थेन समुच्चितदौहित्रस्यापि समकालमेव स्वत्वप्राप्तिरिति ज्ञापयत्येवकारः । 'तथैव भ्रातरस्तथेति' तथा शब्दः तत्सुतपदेनान्वीयमानो यथा शब्दसम्बन्धोऽन्वेति यत्तदोर्नित्यसम्बन्धात् । तथाचायमन्वयः-- पितृगामित्वानन्तरं दायस्य भ्रातृशब्दवाच्यानां तत्सुतानामप्रतिबन्धेनैव दायाधिकारः । तथा तत्पुत्रसद्भावेऽप्यप्रतिबन्ध एव दाय इति । यत्तु विज्ञानयोगिनोक्तं-- पितरावित्यत्र एकशेषमहिम्ना पूर्वं मातृगामि धनं तदभावे पितृगामीति । तन्न, बहुवचनद्द्विवचनास्यपि समप्राधान्यस्य द्योतकत्वात्तयोस्तद्रिक्थे तुल्यमेव स्वाम्यं । किन्तु 'पुमान् पुंसोऽधिके शुक्ल' इति वचनात् बीजग्रहणानुविधायिनं अंशं गृह्णीयादिति वैष्णववचनानुरोधेन तादृगंशग्रहणस्य न्यय्यत्वादिति सोमशेखरः । तन्न । तथा सति पितृवर्गे भ्रातृपुत्रान्ते मातुलादिषु मात्रवयवानुवृत्तेस्तत्रैव दायग्रहणं स्यान्न प्रपितामहवर्गे । यथाऽऽह भारुचिः-- विष्णुवचनव्याख्यानातवसरे--