पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथोपनिध्याख्यस्य पदस्य विधिरुच्यते.


 पूर्वमुपचयापेक्षया परहस्ते दत्तमृणं; तदनपेक्षया रक्षणार्थमेवान्यहस्ते दत्तं द्रव्यमुपनिधिरिति ऋणादानानन्तरं उपनिधेरवसरः । उपनिधिर्नाम करण्डस्थस्वरूपसंख्याविशेषकथनरहितं मुद्रितमन्यहस्ते रक्षणार्थं विस्रम्भादर्प्यते । यथाऽह याज्ञवल्क्यः--

भाजनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥

इति । नारदस्तूपनिधिनिक्षेपयोर्भेदमाह--

असंख्यातमविज्ञातं समुद्रं यन्निधीयते ।
तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥

इति । अत्र विशेषमाह मनुः--

कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे धनी न्याय्ये निक्षेपं निक्षिपेद्बुधः ॥

इति । महापक्षे-- बन्धुशालिनि । न्यासस्य तु स्वरूपमाह बृहस्पतिः--

राजचोरादिषु भयाद्दायादानां च वञ्चनात् ।
स्थाप्यतेऽन्यगृहे द्रव्यं न्यासस्स परिकीर्तितः ॥

इति । उपनिधिनिक्षेपाणां स्वरूपमष्टादशपदस्वरूपनिरूपणावसरे कथितमपि व्यवहितत्वात्सन्निधानार्थमवगन्तव्यं । एतच्च

S.VILASA
34