पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
श्रीसरस्वतीविलासे

अत्र विष्णुः--

 गृहीतधनप्रवेशार्थमेव यत्तु स्थावरं दत्तं तद्गृहीतधनप्रवेशेदद्यादिति ।

एवंविधमाधिं लौकिकाःक्षयाधिमाचक्षते । केचिदिदमेव परिभाषिताधिं; केचित्संविदाधिमाहुः ।

 नन्वाधिःप्रणश्येदित्यनुपपन्नं; अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् । धनिकस्य च स्वत्वहेतोःप्रतिग्रहक्रयादेरभावादिति चेन्मैवं । आधीकरणमेव लोके सोपाधिकस्वत्वनिवृत्तिहेतुः आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । अत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यस्यात्यन्तनिवृत्तेः अनेन वचनेन अधमर्णस्य आत्यन्तिकी स्वत्वनिवृत्तिः उत्तमर्णस्यात्यन्तं स्वत्वं भवतीति विज्ञानेशः । चन्द्रिकाकारस्तु-- धनद्वैगुण्यमवधिभूतकालातिक्रमणं च स्वत्वध्वंसकं यद्यपि लोके द्वैगुण्यादेर्न तथा प्रसिद्धिरस्ति; तथाऽपि द्रव्यविनिमयस्य तथा प्रसिद्धिरस्ति । तिलविक्रयातिषेधाद्विक्रयाकरणेऽपि विनिमये तिलानां स्वत्वनिवृत्तिदर्शनात् । ततश्चात्रापि कृतकालावधौ ऋणी ग्रहणकाल एव यद्यहमियता कालेन न ददामि आधिरेवानृण्याय तव भविष्यतीति धनिकर्णिकयोर्विनिमयसंप्रतिपत्तेर्जातत्वादवधिभूतकाले स्वत्वध्वंसोयुक्त एवेति । अयमभिसन्धिः-- विज्ञानेश्वरमते वाचनिकोऽत्र स्वत्वध्वंसः परस्वत्वापत्तिश्च । चन्द्रिकाकारमते नैयायिकः, क्रयप्रतिग्रहाद्यभावे विनिमयेनैवाधौ धनिकस्य स्वत्वापत्तिः । व्रीह्यादाविव तिलविनिमयकर्तरीति न्यायप्रतिपादनात् । अपरे त्वाहुः-- परिभाषावशाद्द्विगुणधनस्य मूल्यत्वेन क्रयान्ताधिर्भविष्यतीति सोपाधिकक्रय इति स्वत्त्वस्य लौकिकत्वाद्वाचनिकत्वं न