पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
श्रीसरस्वतीविलासे

देवदत्तस्स्वयमेवार्थी न क्वचित्कदाचित्केनचित्कथंचिदप्यासेधनीय इति कृत्वा स्वयमेवासेधाभावं जानाति । तथैव प्रत्यर्प्य सर्वप्रकारेणासेध्य इति स एवासेध्यं सम्यग्जानाति । नन्वासेधस्ससाक्षिकः । तादृशसाक्ष्यभावादेवासेधाभावस्सम्यगुद्भावयितुं शक्यः । मैवं । न ह्यभावस्य साक्षित्वं क्वचिद्दृष्टम् । नन्वनुपलब्धिप्रमाणादेवासेधाभावस्साधयितुं शक्यते । लिङ्गानामनुपलब्धिप्रमाणानुग्राहकतया प्रामाणिकमेवासेधाभावज्ञानमिति चेन्न । साक्ष्यनुपलब्ध्या साक्ष्यभाव एव ज्ञातुं शक्यो नासेधाभावः वैयधिकरण्याभावात् । ननु साक्ष्यनुपलब्ध्या साक्ष्यभावो निर्णीयते तेन साक्ष्यभावेन आसेधाभावो निर्णेतुं शक्यत इति चेत्सत्यं; ससाक्षिकासेधस्थले प्रामाणिकत्वमासेधाभावसाधनस्य भवतु । असाक्षिकासेधस्थले तु पूर्वोक्तमेवावतिष्ठत इति न कश्चिद्विरोधः । किञ्चासेधानां ससाक्षिकत्वप्रसिद्धिः प्रायिकाभिप्राया । लोके आसेधाः ससाक्षिका असाक्षिका अपि सन्ति । दृश्यन्ते च लौकिकव्यवहारेषु । आसेधगमकसाक्ष्यभावादेवासेधाभाव इति निश्चये धर्मस्य तत्वं निहितं गुहायां ईश्वर एव जानातीति स साक्षिकधर्मव्याहतिस्स्यात् । ननु सर्वेषां मानुषविग्रहवतामाशयदोषसद्भावे ससाक्षिकेऽपि प्रामाणिके व्यवहारे साक्षिणां वा लेखकादीनां वा मूलस्वामिनो वाऽप्याशये कतिपयविशेषा उद्भावयितुमशक्या इति सर्वत्र दिव्यमेव प्रवर्तते । अतो मानुषप्रमांणं निरवकशं स्यादिति चेन्मैवं । मानुषप्रमाणानां परिशुद्धानां सद्भावेऽप्याशयदोषोद्भावनद्वारा तेषां मूलशैथिल्यमापाद्य दिव्याङ्गीकारैर्निर्णेतुभिस्सभ्यैः प्राड्विवाकेन च व्यवहारस्य सोत्तरत्वमापा