पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
177
व्यवहारकाण्डः

गोचारस्य-- कृषीवलस्य शूद्रस्येत्यर्थः । "शूद्रस्य फालं दातव्यं," इति गौतमस्मरणात् । पञ्चदशपणादारभ्य त्रिंशत्पणादर्वाक् शूद्रस्य कोशदानम् । त्रिंशत्पणादारभ्य चत्वारिंशत्पणादर्वाक् शूद्रस्य तण्डुलभक्षणं भवति । चत्वारिंशत्पणादारभ्य पञ्चाशत्पणादवार्क् शूद्रस्य तप्तमाषा भवन्ति । तथाच बृहस्पतिः--

चतुश्शताभियोगे तु दातव्यस्तप्तमापकः ।
त्रिंशतस्तण्डुला देयाः कोशश्चैव तदर्धके ॥

चतुश्शताभियोगे-- शतचतुष्टयमानसुवर्णीविषयाभियोगे इत्यर्थः । तत्र तप्तमाषो दातव्यः । तेषां चत्वारिंशत्पणात्मकत्वात् । चत्वारिंशत्पणाभियोगे शूद्रस्य तप्तमाषो दातव्यः इति यावत् ॥ त्रिशते तण्डुला देया इत्यत्रापि शतत्रयमानसुवर्णे त्रिंशत्पणात्मके शूद्रस्य तण्डुला देया इति । तथा-- "कोशश्चैव तदर्धके" इति पञ्चदशपणात्मके पञ्चाशदधिकशतमानसुवर्णे शूद्रस्य कोशो देय इति । तथा पञ्चाशत्पणादारभ्य सप्ताधिकषष्टिपणादर्वाक् शूद्रस्य तुलाधारणं भवति । सप्ताधिकषष्टिपणादारभ्य पञ्चाधिकसप्ततिपणादर्वाक् शूद्रस्य जलप्रत्ययो भवति । पञ्चाधिकसप्ततिपणादारभ्य शतपणादर्वाक् शूद्रस्य परशुर्भवति । शतपणादारभ्य शूद्रस्य विषभक्षणमेव । तथा च बृहस्पतिः--

विषं सहस्रेऽपहृते पादोने तु हुताशनः ।
त्रिपादो (भागो)ने च सलिलं अर्धे देयो घटस्सदा ॥

पणशतात्मकसहस्रमानसुवर्णे शूद्रस्य विषभक्षणं भवति । मानसहस्रचतुर्भागहीने पञ्चसप्ततिपणात्मके शतसप्तमाने शूद्रस्य परशुधारणं । तथा सहस्रमानसुवर्णस्य तृतीयभागहीने सप्त

 S. VILASA
23