सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२-द्विः पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६३७ धिकं वाऽपि । मन्त्रास्तु न प्रकृतावूह इतिनिषेधादेकवचनान्ता एव वक्तव्याः पनीर संनो तिवत् । तथोत्तरस्यां तताविति ऊहनिषेधकात्सूत्राद्विकृतावपि । एकवचनं जात्य- भिप्रायपरतया समर्थनीयम् । द्रव्यत्रयस्य प्रदानं हिरण्यमजा वास इत्येवं क्रमेण विधास्यति । तत्क्रमेणैवात्र निर्देशे कर्तव्ये वासोनिर्देशानन्तरमजानिर्देशो व्युत्क्रमेण यः कृतः स ज्ञापयति द्रव्यत्रयप्रदानक्रमविषयेऽयमपि पक्षे क्रमोऽस्तीति ।

दश गावो भवन्त्यथैतानि त्रीणीत्येकेषाम् ।

दश गावः, त्रीण्येतानि एवं मिलित्वा त्रयोदश व्यक्तय इत्यर्थः । अस्मिन्पक्षे चतस्रो गाः(गावो) धेनुस्तद्वत्स ऋषभोऽनड्डान्मियुनौ गावौ । एता दश गावो हिरण्यं वाम्रोऽना चेत्येतानि त्रीणि द्रव्याणि चेत्येवं त्रयोदशेत्येकेषामाचार्याणां मतम् । अयं च पक्षः शाखान्तरीयः । अथशब्दो दशगोव्यक्तिप्रदानानन्तरमेव वा हिरण्यवाप्तोजानां प्रदा: नमिति पाक्षिक क्रमान्तरं प्रदर्शयितुम् । एतेने दमपि ज्ञायते केषांचिन्मते दशानां गवां प्रदानारपूर्वमपि एतेषां त्रयाणां दानमस्तीति ।

अपि वा चतुर्भिरेव ।

अमाढ्यस्य दशव्यक्त्यभावे चतुभिरेव द्रव्यैः क्रयः । तान्याह-

गवा चैतैश्च त्रिभिः ।

एतैरनन्तरोक्तैहिरण्यवासोजात्मकैव्यैः । गवा चेत्यत्र चकारो मतान्तरसमुचयार्थः । एवं च चतस्रो गावो हिरण्यं वाप्लोऽना चेति सप्तमिरपि पक्षे क्रयः सिध्यति । एतेषां पक्षाणां शक्ताशक्तपरत्वेन व्यवस्था ।

गवैकविꣳशातिदक्षिणस्य ।

नियमार्थमिदं सूत्रम् । एकविंशतिदक्षिणस्यैकया गवैव क्रय इत्यर्थः । एतैश्च त्रिभिरि- त्येतस्य नानुवृत्तिः । यद्येतैश्च त्रिभिरित्येतस्यानुवृत्तिरिष्टा स्यात्तदैकविंशतिदक्षिणस्य चेत्येवं ब्रूयात् । यतो नैवमुक्तवानतो नानुवृत्तिः । अस्मिन्पले हिरण्यप्रत्यादानं लुप्यते । एकविंशतिदक्षिणस्य गवेत्युक्त्या षष्टिदक्षिणस्याधिकसंख्या दिवगम्यते । तां स्पष्ट- माहाऽऽपस्तम्बः-तिसृभिः षष्टिदक्षिणस्येति । अपरिमितदक्षिणापक्षे विशेषमाह स एव–अपरिमिताभिरपरिमितदक्षिणस्येति ।

त्रिꣳशता सहस्रदक्षिणस्य ।

स्पष्टम् । सर्वस्वदक्षिणे कतौ चतुर्विशत्या क्रम । तथाचाऽऽपस्तम्बः-- --चतुर्विर. शत्या सहस्त्रे सर्ववेदसे वेति । - ८१