सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। २ द्वि० ६०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६२९ मिति चेत् । तर्हि कृष्णविषाणासाहित्यव्यावृत्त्यर्थं तद्ग्रहणमिति द्रष्टव्यम् । याव- स्मूतमिति श्रुतेर्यावघृतमित्यर्थो द्रष्टव्यः ।

पदायतने सहिरण्यौ पाणी प्रक्षाल्य त्वे राय इति पदं यजमानाय प्रयच्छति ।

पदायतने पदस्थाने । आयतनग्रहणं स्थाल्यां निक्षिप्त पदे पाणिपक्षालन व्यावर्त- यितुम् । सहिरण्यौ हिरण्यसहितौ । अनेन हिरण्यस्यापि प्रक्षालनम् । अनेन पाणिप्र- क्षालने नेई ज्ञायते पदपासवः स्थाल्या हस्ते नैव न्युप्या नतु स्फ्पेन पात्रान्तर आनीय तेन न्युप्या इति । एवं च दृष्टार्थत्वमेवैतस्य हिरणस्य घृतलिप्तत्वात्प्रक्षालनं हिरण्यस्य पाणिसाहित्येनैव प्रक्षालनम् । सहिरण्याविति वचनात् ।

तोते राय इति यजमानः पत्नियै ।

प्रयच्छतीति शेषः । पत्न्यनेकत्वे तु महिण्या एव प्रयच्छति निधानार्थत्वात् , असंस्कारकर्मत्वाच्च । आध्वर्यवपूत्रे वचनमवसरख्यापनार्थम् ।

माऽहꣳ रायस्पोषेण वियोषमिति पत्नी प्रदीयमानं प्रतीक्षते ।

प्रदीयमानं पदं प्रतीक्षते, अभिमुखो भूत्वेक्षत इत्यर्थः । सर्वामिरपीक्षणं कार्य संस्कारकर्मत्वात् ।

सं देवि देव्योर्वश्या पश्यस्वेति सोमक्रयण्या पत्नीꣳ संख्यापयति ।

संख्यापनानुकूलव्यापारां करोतीत्यर्थः । एतत्करणीभूतोऽयं मन्त्रः । तस्मादध्वर्यो- रेव मन्त्रः । संख्यापनं प्रदर्शनम् । अत्रानेकासामपि तन्त्रेणैव संख्यापन विभवात् । मन्त्रगतमेकवचनं तु नात्यभिप्रायेण समर्थनीयं न प्रकृतावह इत्यूहनिषेधात्पत्नी सन- तिवत् । संघशीत्यन्तो मन्त्रः ।

उन्नम्भय पृथिवीमिति पद उदपात्रं निनीय त्रैधं पदं प्रतिविभज्य गार्हपत्यस्य शीते भस्मनि तृतीयमुपवपत्याहवनीये तृतीयम् ।

भस्मनि तृतीयमुपवपत्याहवनीये तृतीयम् । पदे स्थाल्यां निक्षिप्तेषु पदपांसुषु पात्रस्योदकमुदपात्रं पात्रसंबन्धि उदकं पात्र- स्थितमुदकमिति यावत् । पात्र उदकमुदपात्रमिति वा । तात्पर्यार्थः पूर्ववदेव । राज- दन्तादिशब्दवदयं समासः । उदकस्योदः संज्ञायामित्युदादेशः । निनोयेतिपदयोगाद. यमेव समासोऽत्र नसूदकेन पूर्ण पात्रमुदपात्रमिति पात्रस्य निनयनासंभवात् । साम• यात्पदपांसुमिश्रणपर्याप्तं जलं यावति पात्रे समाति तावत्परिमितम् । विसृजाह- तिमित्युदकनिनयनरूपार्थानुगुणलिङ्गादुन्नम्भय पृथिवीं भिन्धीत्यादिन्यत्र दृष्ट एव ८.