पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वि पटलः .] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ६२५

हविरसि वैश्वदेवमित्यवेक्षते ।

अवनतो भूत्वेक्षत इत्यर्थः । अत्राप्याज्यमित्येव शेषः । मन्त्रे हविरिति श्रवणात् । एतदन्तमासीनतैव ।

सूर्यस्य चक्षुरारुहमिति सहिरण्येन पाणिनाऽऽदित्यमुपतिष्ठते ।। ५ ।।

सहिरण्येनेति पाणिविशेषणम् । पाणिनेतितृतीयेत्थंभूतलक्षणे । तेन पूर्वमेवावश्य हिरण्यं पाणी भवति ।

अशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशैः ।

इति स्मृत्या पवित्रत्वेन सर्वदाऽङ्गुलिषु हिरण्यधारणं विहितं ततो भिन्नं पाणितले हिरण्यधारणमपूर्वमनेन विधीयते । स्मृतिसिद्धं यबङ्गुलिषु हिरण्यधारणं तस्यैव कर्मा- त्वमनेन विधीयत इति वा । तेन श्रीतमपि प्रायश्चित्तं कर्तव्यं भवति । अङ्गुलिपु हिरण्यधारणेनापि पाणी हिरण्यधारणं भवत्येव । अङ्गुलोनामपि पाणित्वात् । अन्य- थाऽशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशैरिति करस्य सुवर्णरजतकुशसंबन्धविधानेना- मुलीनां तद्भिन्नत्वेन तत्र धारणस्य स्मृतिविरुद्धत्वापत्तेः । करपाणिशब्दौ हि पर्याय- भूतौ । उपस्थाने तिष्ठत्ताऽऽसीनता वा । नचोपतिष्ठत इत्यत एव तिष्ठत्ता सिद्धति वाच्यम् । उपान्मन्त्रकरण इत्यात्मनेपदविधानान्नात्र तिष्ठत्ता धातुप्रत्यययोरर्थः किंतु मन्त्रकरणमञ्जलिकरणपूर्वकं विनयेनाऽऽशीर्याच्ना । तदुक्तमाहिताग्नेराशीयदग्निमुप- तिष्ठत इति । तस्मादुपस्थानादन्यैव तिष्ठत्ता । यदि उपस्थानान्तर्गतैव तिष्ठत्ताः स्यात्तदा तिष्ठन्ती गार्हपत्यमुपतिष्ठते, उत्तरामाहुतिमुपोत्थाय कवातिपङ्विाऽऽहवनी- यमुपतिष्ठत इत्यत्र यथायथं तिष्ठत्तोपोत्थानविधान न कृतं स्यात् । अतो यत्र यत्र: विधान तत्रैव, अन्यत्र त्वनियम इति सिद्धम् । तथाच मन्त्रप्रतिपाद्य पदार्थ ध्याय- नतिमुद्रायुत आशी:(शिर्ष) प्रार्थयन्मन्त्रं पठेदित्येष उपस्थानशब्दार्थों भवति । अत्र पाणिनेति वचनादञ्जलिना नोपस्थानं किंतु पाणिनैवेति । यत्र यत्र दक्षिणग्रहण क्रियते तत्रैव दक्षिणाङ्गस्य ग्रहणमन्यत्रानियम इति तत्र तत्र दक्षिणप्रणेन ज्ञाप्यते । प्रकृते दक्षिणग्रहणाभावादनियम एव । एवमन्यत्रापि । एतच्च निर्दिष्टाङ्गविषयम् । अनिर्दिष्टाङ्गविषये नु दक्षिणस्यैव ग्रहणं नियतम् । अत्र ज्ञापकं याजुषदर्शपूर्णमास- हौत्रसूत्रे सव्येन तूष्णीमानोधमित्युत्तरसूत्रात्पूर्वत्र दक्षिणस्य प्राप्ती दक्षिणग्रहणमनि. दिष्टस्थले दक्षिणस्यैव ग्रहणमिति । विपश्चितत्यन्तो मन्त्रः ।

चिदसीति सोमक्रयणीꣳ सꣳशास्ति ।

आसीन एव । संशब्दो मन्त्रस्य स्पष्टोच्चारणं गमयति । तेनोपांशुता . निवृत्ताः मवति । अवेक्षणविशिष्टं मन्त्रोचारणं संशासनम् । संशासनवाच्यस्य शिक्षणस्य -