सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्त्यापाडविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने- समिधो अन्न आहुतेल्यस्या प्रक्षेपणीयदारुभिः सहैव प्रक्षेपणीयतिक्षापनार्थम् । सूत्रा- यस्तु स्पष्ट एव ।

वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।

वेदं कृत्वेत्यनेन वेदसंबद्धकर्मणां सत्तं सूच्यते । अन्यथा बेदकरणस्य निरर्थ- कत्वापत्तेः । वेदसंबद्धकर्माणि वेदिसंमार्जन वेदेनोपयम्योपविलं स्थाल्या जुई धार- यमाण इति वेदेनोपवाज्येति । वेषाच्छादनस्य बहिष्प्रयोजनत्वेन वेदिकरणं विना पेद्यसंभवेन बहिराहरणविधिवगद्वेदिकरणमपि सूचितं मवति । वेदं कृत्वेति क्त्वाप्रत्य- थान्तोऽनुवादो वेदकर्ताऽध्वर्युः स एवात्राग्निपरिस्तरणकर्तेति समानकर्तृकत्वार्थः । अनेनाऽऽसीधादीनां निवृत्तिरत्र । भग्नीपरिस्तीति त्यप्प्रत्ययान्तोऽनुवादः समान. कर्तृकत्वार्थः । तेन पाणिप्रक्षालनकर्ता यः स एवाग्मिपरिस्तरणकर्तेति । तेन पाक्षिकान्य- कर्तृकत्वव्यावृत्तिः । श्रेषस्य त्वारमार्थताया अपि सत्त्वान्न निवृत्तिः । प्रकृती ल्यप्प्रत्यया- न्तप्रयोगादेव पाणी प्रक्षास्येत्यपेक्षितम् । अन्ययाऽग्नीपरिस्तीर्योलपराजी स्तोर्वेस्येव. मुच्यमाने पाणिप्रक्षालनस्य निवृत्तिरेव स्यात् । अतः पाणिप्रक्षालनानिवृत्यर्थमिदं वचनम् । पाणी प्रक्षास्यत्ययं स्यप्प्रत्ययान्तोऽनुवादः । प्रकृतावेवैवमस्तीति हेतोः । सम्यावस- ध्यपक्षे तयोरपि परिस्तरणम् । उळपाः शुष्कदर्भाः । बल्लनतृणानीति केचित् । उशीरतृमानीत्यन्ये । उर्धतृणानीति परे । तेषां रानी पलिस्तां स्तीत्वा विस्तारयित्वा यथार्थ यथाप्रयोजन पात्राणि प्रयुनक्तीत्यर्थः । यथार्थमितिषचन प्रयोजनामाववतां शम्यादृषदुपलाकुटरुपिष्टभर्जनामेक्षणाबाहार्यस्थालीमदन्तीपात्रयोक्त्राणां निवृत्ति प्रद- शयितुम् । अपूर्वत्वपक्षे प्राशिवहरणस्यापि । स्थाली कपालाना स्थाने प्रयुनक्तीति वक्ष्यमाणसूत्रादेव कपालानां निवृतिः। नच हषदुपलयोः कुटरोश्व शम्यया समाहननपक्षे शम्याया वा समाहननार्यमासादनमस्तु इति वाच्यम् । चरौ समाहननस्य दृषदुपलसं- स्कारार्थत्वेन प्रकृते दृषदुपलयोः प्रयोजनाभावेन तदभावे तत्संस्कारस्य समाहननस्या- प्यभावात् । समाहननाभावादेव तत्करणस्य कुटरोः शम्याया वाऽपि निवृत्तिः । स्पष्ट सर्वमेतदाह भरद्वाजः-असति द्रव्ये कर्मलोपो यथा चरौ समाहननमायेभ्यो निनय- नमिति । तत्र द्वंद्वत्वसंपत्तिरेवम् - स्फ्यः समेक्षणस्थाली चेति द्वंद्वम् । कृष्णाजिनं तृणं चेति द्वंद्वम् । सूत्रान्तरे द्वंद्वतार्थ तृणप्रयोगस्य विहितत्वात् । आज्यस्पाली तृणं चेति द्वंद्वम् । पात्री तृणं चेति द्वंद्वम् । प्राशित्रहरणामावे वेदं तृणं चेति द्वंद्वम् । स्तीति क्याप्रत्ययेन तूष्णीं दक्षिणां तूष्णीमुत्तरामिति ब्रह्मयजमानसदनकरणं च व्यावय॑ते । अथवा राजीमिति भातावेकवचनम् । तेन तूष्णी दक्षिणां तूष्णोमुत्तरामिति भवत्येव । ब्रह्मयजमानसदनकरणं त्वत्र व्यावृत्तत्वात् सयोरुपवेशनकाल एवाध्वर्युणा कर्तव्यम् ।