पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . - + 1 ६१० सत्याषाढविरचितं भौतसूत्रं- [ संघमप्रने- सच्च-हिरण्यदानं गोदानं भूमिदानं तथैव च । नाशयत्याशु पापानि महापातकनान्यपि ॥ इति संवोकम् ॥ वामनःकायजान्दोषान्प्राणायामो विनाशयेत् । वेदमातृनपो वाऽपि प्रणवस्य जपोऽपि वा ॥ इत्याङ्गिरसोक्तम् ॥ लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत् । इति चतुर्विशतिमतोक्तं वा दोषतारतम्येन प्रायश्चित्तं दृष्टव्यम् । विचीयमाने सोमे तस्य समीपे दृष्टारोऽपि न मवन्तीत्यर्थः । उपेति ग्रहणादूदूरतो दर्शने दोषो नैवेति । सोमविक्रयिणो यदि अलापत्तदोपायमाह कर्मान्त बौधायन:-अथ यदि न सोमविक्रमी स्याण यूपावटकालं पलाशशाखां निहत्य समुपना राजानं पलाशशा- खायां समासज्ज्योपासीताथ यदि कश्चित्प्रसवयुक्तं ब्याहरेक्षिमिति वा त्वरध्वमिति या कुरुतेति वेति तद्राजानमावदीत न संवादा आवर्तेरन्स सोमविक्रयी स्यादिति ।

प्रायणीयाप्रभृतिष्ववभृथान्तेष्विष्टिपशुबन्धेषु व्रतोपायनं जागरणं पत्नीसंनहनमारण्याशनं च न विद्यते ।

सोमा रेव सिद्धार्थत्वादिति भावः । अन्तशब्दोऽवध्यर्थे । अवभृथान्तावावमृषा- न्तावावभृषान्तास्तेवित्येकशेषः । अवमृषावधि कामु इष्टिषु अवभृषावधिकेषु पशुषु चेत्यर्थः । यद्यपि पशुबन्धद्वयमेव तथाऽपि प्रायश्चितपशुद्वयमादाय बहुवचनम् । प्रायणीयाप्रमृतिवित्यनेन दीक्षणीयाव्यावृत्तिः । अवभृथान्तेष्वित्यनेनोदयनीयादिव्या. वृत्तिः । सर्वेषु सौमिकेविष्टिपशुबन्धेविति सूत्रे यथादर्शितं प्रयोजनमिष्टिपशुबन्ध- ग्रहणस्य तद्ववापि द्रष्टव्यम् । अवभृथान्तेष्वित्यनेनैवार्य हेतु म्यते । व्रतोपायनादीनां सिद्धार्थत्वं नियमेन प्रायणी याप्रभृतिष्ववमथान्तेष्वेवास्तीति हेतोस्तत्प्रभृतित्व तदन्तत्वं चोकम् । प्रायणीयाप्रभृतिष्वित्यनेन दीक्षणीयाव्यावृत्तिः । ननु तदहीक्षितो रात्रि जागर्तीति यानमानसूत्रे दीक्षाकाले जागरणस्य विधास्यमानत्वादन्यस्य च सद्यस्का. छतया प्राप्तेरेवाभावास्किम निषिध्यत इति चेत्सत्यम् । आनर्थक्यप्रतिहतस्य निषे. धस्य विपरीत बलाबलमिति न्यायेन लक्षणया च जागरणशब्देन जागरणाभावसंपाद- कनिद्रास्थानिकक्षणिकनेत्रनिमोलनाकरणमभिधीयते तस्य निषेधोऽत्र क्रियते । एवं च परिस्तरणोत्तरकालं नेत्रनिमौलनरूपपदार्थोऽस्तीति गमयति । नेत्रनिमीलनाकरणरूप- जागरणेनैव सिद्धेरिति भावः । सवनीयोपवतीभूतायां रात्रौ यज्जागरणं तन्मुख्यम् । इष्टयायन्तःपातित्वेन तदमावस्तु क्षणिक एव स्वीकार्योऽन्यस्यासंभवात् । स च पदार्थः परिस्तरणोत्तरमेव परिस्तरणोत्तरकालस्यैव तदधिकरणत्वेन प्रकृतित उपस्थितत्वात् । अथवाऽयमर्थः-यज्ञसाधनरक्षणद्वारा जागरणस्याप्रमादार्थस्य नानेन निषेधः क्रियते.