पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१० पटलः ] गोपीनाथमहकूतज्योत्स्नाव्याख्यासमेसम् । ६०७ कृष्णाजिन प्रतिनिधिरलामे चर्मणां मवेत् । तदलाभे तु मेध्यस्य चर्मान्यस्य पशोर्भवेत् ॥ इति प्रतिनिधिप्रकरणे संग्रहोक्तेः । गृहप्रवेशेऽनदुहधर्माऽऽस्तरणमिष्यते । तस्यामावे तु तार्णस्य तल्पस्याऽऽस्तरणं भवेत् ॥ इत्याश्वलायनस्मृतौ ताणतल्पस्याऽऽनडुह चर्मप्रतिनिधित्वेन ग्रहणासर्वथा चर्माला सार्णस्तल्पो ग्राह्यः । कृष्णाजिनाभावे तु कृष्णवर्णरहितमृगाजिन प्रतिनिधिः । तस्या- प्यभावे रौरवादीन्यनिनानि । अनन्तरोक्तरीत्या तार्णस्तस्पो वा । आश्वलायनस्मृतावना हुदहणस्य चर्गमात्रोपलक्षणार्थत्वादिति द्रष्टव्यम् । तस्याऽऽस्तृतस्य चर्मणो दक्षिणे पक्षे दक्षिणे भागे चर्मण उत्तरो मागो राज्ञो विवेचनायावशेषितो भवतीत्यापिकम् । उत्तरत इत्यत्र तस्येत्यनुवर्तते । धर्मण उत्तरे भाग उदकुम्भनिधानमिति शङ्कामपाकर्तु- मेवोत्तर इति पूर्वसजातीयशन परित्यज्योत्तरत इति शब्दान्तरमहणं कृतम् । उदकेन पूर्णः कुम्म उदकुम्भः । उदकस्योदः संज्ञायामित्युदकशब्दस्योदादेशः । सर्मतः सर्वासु दिक्षु परिश्रित्य कटादिभिः परित आच्छाथ । उदीचीमुत्तरदिगमिमुखाम् । द्वाः- शब्दो रेफान्तस्तस्य द्वितीयकवचनम् । अयं च शब्दः स्त्रियाम् । देवीद्वारावितिकि- जात् । द्वारविधानात्तद्वनै परिश्रयणम् । सोमविक्रयिण सोमविक्रेतारं प्रपादयति परि- श्रितं प्रवेशपति सोमविवेचनार्थम् । स च ब्राह्मणः कौत्सः कुत्सगोत्रः कुत्सितकर्मा या । अत्राऽऽपस्तम्बः कौत्सादामानं कोणीयादन्यस्माद्वा बामणादित्युक्त्वाऽऽहाप्य. माह्मणादिति । शूदः सच्छूदो गोपो नापितो वा । सच्छूदौ गोपनापिताविति स्मृतेः । शाखान्तरे शमितृसामविक्रयिणी कुलागवित्याम्नानास्कुलालोऽपि पक्षे । निषादरथकार- यद्यावदर्थमध्ययनमेतेषाम् । भयं च शूद्रो विप्राभावे द्रष्टव्यः । एतस्मादेव दिन्य एवेति गम्यते । यस्य कस्यचित्विज एव सोमविक्रयित्वे क्रयजन्यदोषविशिष्टस्य स्वकर्मण्यनधिकारादन्य एव युक्त इति मावः । तृतीयाध्याये सप्तमे पादे विक्रयी स्वन्यः कर्मणोऽचोदित्वादिति जैमिनिरप्येवमाह । मूत्रार्यस्तु विक्रयी सोमविक्रयो तु अन्य विग्योऽन्यः । कुतः कर्मणो विक्रयकर्मणोऽचोदितत्वादविहितत्वाद. क्रत्वर्थत्वानिन्दितत्वादिति यावत् । प्रवृत्तिस्तु द्रव्यलोभवशेन द्रष्टव्या । वरणामावा. यथा शमित्रुपगातार ऋविज एव तथा विक्रयो न भवतीतिवेलक्षण्यद्योतनाय सुशब्द इति । कात्यायनोऽप्येवम् । सोमविक्रयी, उपपातको । सोमः केतव्य इत्य: विधानात् आममांससुरालोमलाशालवणसापाम् । विक्रये सर्वपण्यानां द्विजश्चान्द्रायणं चरेत् ॥ Y